________________
127
चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति,भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ, अनन्तानुवन्ध्यभावे सप्त, मिथ्यात्वाभावे षट् , अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सज्वलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्येकमेवोदयस्थान चतुर्णामायुषामन्यतरदिति, नानो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षविंशतिः संप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नानो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा-तैजसकार्मणे शरीरे २ वर्णगन्धरसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा-मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ वादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्तिरिति ८ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्धगौरवभयात् पत्येक नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यश-कीर्त्ययशाकीयोरन्यतरत् ९, एताश्च नव ध्रुवोदय १२
सहिता एकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ४ उपघातं ५ प्रत्येद कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भग ९ अनादेयं १० अपर्याप्तकं ११ यशाकीर्त्ययशः
CAKAC-
AACANCREAST
श्रीआचा- कोरन्यतर १२ दिति, तत्रैवापर्याप्तकापनयने पर्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः २५, षडिंशतिस्तु या- सम्य०४ राजवृत्तिः ऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाद्यसंहननोपघातप्रत्येकसहिता वेदितव्या
मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव है। शी०)
उद्देशक प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छास १ सुस्वर २ पराघात ३ प्रक्षेपे सति | ॥१९॥
त्रिंशद्भवति ३०, तत्र सुस्वरे निरुद्धे एकोनत्रिंशत् २९, सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ३१, नवोदयस्तु मनुप्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्ति ८ स्तीर्थकरमिति ९, एता अयोगितीर्थकरकेवलिनः, एता एव तीर्थकरनामरहिता अष्टाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतर, यौगपधेनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामदाहरन्तीति ॥ यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह
इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं,-जहा जुन्नाइं कट्टाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे (सू० १३५)
॥१९ ॥ 'इह' अस्मिन् प्रवचने आज्ञामाकावितुं शीलमस्येति आज्ञाकाङ्की-सवज्ञापदेशानुष्ठायी, यश्चैवम्भूतः स 'पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्त्रिहः, यदिवा स्निह्यतीति स्निहोरागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाञ्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भाव| रिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरनिहतो, नान्यत्र, * यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता। यश्चैवम्भूतः स किं कुर्यादित्याह-एगमप्पाण' मित्यादि, सोऽनिहतोड
स्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरक, सम्भावनायां लिड्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावकत्वभावनवरूपा भावयितव्येति-"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिर्धा[न्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ २॥ सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ३॥” तथा-एकः प्रकुरुते कर्म, भुनत्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १॥ इत्यादि, किं च-कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीणमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, | किमर्थमित्येतदिति चेदाह-'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्प्रमश्नाति-शीघ्रं |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org