________________
126
सम्य० ४
श्रीआचा- काष्ठमुनयस्ते शुष्कगोलकसन्निभा न कचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्याध्ययने द्वितीयोद्देशकनियुक्तिः । इति राङ्गवृत्तिः Ma| सम्यक्त्वाध्ययने द्वितीयोदेशकः समाप्तः ॥४-२॥ (शी०)
। उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि
सूत्रम्
सन्ति ? येभ्योऽधिकः स्यादित्य
यस्ते विद्वांसो भवन्त्येव एतदण्डाः' निश्चयेन क्षिप्तो नि
उवेहि गं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू , अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउत्ति अंजू , आरंभजं दुक्खमिणंति णच्चा, एवमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण
मुदाहरंति इय कम्म परिपणाय सव्वसो (सू० १३४) याऽयमनन्तरं प्रतिपादितः पापण्डिलोकः एनं धर्माद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनु- ॥१८॥ तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पापण्डिलोकोपेक्षकः स के गुणमवामुयादित्याह-'से सब्बलोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति ? येभ्योऽधिकः स्यादित्यत आह–'अणुवीई' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपधातकारी दण्डो यस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह--'जे केई' इत्यादि, ये केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽप्रकारं कर्म नन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य ‘पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह–'नरे' इत्यादि, नराः-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृतार संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, सच क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्टा अर्चा कषापरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च-'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्यादेतत्-किमालम्ब्यतद्विधेयमित्यत आह-'आरंभज' मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माजातमारम्भर्ज, किं तद्-दुःखमिदमिति सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति-'एव'मित्यादि, 'एवं' पूर्वोकप्रकारेण 'आहः' उक्तवन्तः, के एव-| माहुः?-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह सम्ब. ४ -ते सब्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त
उद्देशक एव प्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिजया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्यारूपानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिपकारा अष्टपश्वाशदुत्तरं शतम् , अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्माताकार्यभूतैरागामिवन्धसत्क-II मताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा-मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयोगपद्येन वेदयतोऽष्टविधं, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पश्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयर द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्योगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र ॥१८९॥ दश मिश्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानःप्रत्याख्यानावरणः सवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि
स्यादेतत्-किमाल
कम्, 'इतिः पाणिज्याद्यारम्भप्रवृत्तो यभारम्भस्तस्माजातमारम्भ
96+
श्रीआचाराङ्गवृत्तिः (शी०)
A
॥१८९॥
+
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org