________________
आ. सू. ३२
श्रीआचा राङ्गवृत्तिः (शी०)
॥ १८७ ॥
125
यदिवा पूर्व प्रानिकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह - 'पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि किं 'भे' युष्माकं 'सातं' मनआह्लादकारि दुःखमुतासातं मनः प्रतिकूलं ?, एवं पृष्टाः सन्तो यदि | सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकवाधा स्याद्, अथ चासातमित्येवं ब्रूयुः ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रा. वादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात्- 'अपिः' सम्भावने, सम्भाव्यते एतद्भणनं यथा न केवलं भवतां दुःखमसातं, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिर्वृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्य - स्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे
खुड्डग पायसमासं धम्मकपि य अर्जपमाणेणं । छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७ ॥ अनया गाथया सङ्क्षेपतः सर्व कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्क्षेपस्त मजल्पता धर्म्मकथां च 'छन्नेन' प्रकटेन 'अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमा| सार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, सचाई - दर्शन भावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः - धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्वाह
किमाभः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्मं परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्धुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति —
भिक्खं पविद्वेण मएज्ज दिहं, पमयामुहं कमलविसालनेत्तं । वक्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वन्ति ॥ २२८ ॥
सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतराग तेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । | पुनस्तापसः पठति
फलोदणं मि हिं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वित्तचित्रेण न सुट्टु नायं, सकुंडलं वा वयणं न वत्ति ।। २२९ ।। सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह
मालाविहारंमि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्वचित्तेण न सुड्डु नायं, सकुंडलं वा वयणं न वत्ति ॥ २३० ॥
पूर्ववद् एवमनया दिशा सर्वेऽपि तीर्थिका वाच्या, आहतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वाहतलकोऽप्येवम्भूत परिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थी प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाधापादं गृहीत्वा गाथा बभाषे तद्यथा
Jain Education International
तस्स दंतस्स जिइंदियस्स, अज्झष्पजोगे गयमाणसस्स ।
किं मज्झ एएण विचितएणं?, सकुंडलं वा वयणं न वत्ति ।। २३१ ।।
सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्मं प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्के तर कईमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे पुनर्गच्छन् राज्ञोतं किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ?, स चावोचत्-हे मुग्ध ! ननु कथित एव धम्र्म्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह
उल्लो सुक्को य दो छूढा, गोलया महियामया । दोषि आवडिया कुड्डे, जो उल्लो तत्थ (सोऽत्थ) लग्गइ ॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा से सुकगोलए ॥ २३३ ॥
अमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृभुतया सार्द्राः, साईतया च संसारपङ्के कर्म्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः
For Private Personal Use Only
सम्य० ४
उद्देशकः२
॥ १८७ ॥
www.jainelibrary.org