SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १८५ ॥ श्रीआचा राङ्गवृत्तिः (शी०) ॥ १८६ ॥ 124 तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परुवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयव्या २ न परिधितव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं ब्रूया - सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महभयं दुक्खं तिबेमि ( सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४–२ ॥ 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणाः' पाषण्डिकाः 'ब्राह्मणा' द्विजातयः वृषक्पृथगू विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति - यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि भागवता ब्रुवते - “पशविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्यं तत्त्व" मिति, वैशेषिकास्तु भाषन्ते - " द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयल द्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व" मिति | शाक्यास्तु वदन्ति - "यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे”ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्- प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पश्चभिरापद्यते हिंसा ॥ १ ॥" इत्येवमादिक औदेशिक परिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति- 'से दिहं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'न्ति, 'से' ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः श्रुतं चास्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परो|पदेशदानेन, एतचोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युपेक्षितं च-पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह - सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, 'अत्रापि' धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ 'दोष' पापानुबन्ध इति, एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्म्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं Jain Education International च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत - इति, आह च - आराद्याताः सर्वहेयधम्र्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याः क्रूरकर्माणिस्तेषां प्राण्युपघातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्यु|पेक्षितमिति । तदेवं दुर्दृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह - 'जं ण 'मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र - प्राण्युपमर्दानुष्ठाने दोषः - पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्म्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आवि र्भावयन्ति - 'वय' मित्यादि, पुनः शब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्म्मविरुद्धवादो न भवति तथा पज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र - अस्मदीये वचने नास्ति दोषोऽत्रापि-अधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः - पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपधातप्रतिषेधाच्चार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः - भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यो यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह- 'पुव्व' मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, For Private Personal Use Only सम्य० ४ उद्देशकः२ ॥ १८५ ॥ सम्य० ४ उद्देशकः२ ॥ १८६ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy