________________
123
*******%
श्रीआचारावृत्तिः (शी०)
॥१८४॥
%ARNAKA+RANA NRNAKALA
तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं च-"नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुब्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ १॥" ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्म नावबुध्यन्ते ते किम्भूता है। भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ-मर्यादया संयमावधिभूतया निकेतभूताः-आश्रया वङ्कानिकेताः, वको वा निकेतो येषां ते वङ्कानिकेताः, पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः' कालेन-मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः-अभिसन्धितः कालो यैस्ते कालगृहीताः, आहिताग्निदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि-पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा-निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः-अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते | तद्धर्माणः किमपरं कुर्वन्तीति दर्शयितुमाह-'पुढो पुढो' इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥ तदप्रच्युतौ च किं स्यादित्याह
इहमेगेसिं तत्श ग्रन्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिटुं कम्मेहिं कूरेहिं चिटुं परिचिटुइ, अचिटुं कूरेहि कम्मेहिं नो चिटुं परिचिटुइ, एगे वयंति अदु- सम्यक वावि नाणी नाणी वयंति अदुवावि एगे (सू० १३२)
उद्देशकार 'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके 'एकेषां मिथ्यात्वाविरतिप्रमादकपायवतां तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीथिका अप्यौदेशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहि-लोकायतिका अवते-"पिब खाद च चारुलोचने 1, यदतीतं वरगात्रि! तन्न ते । न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ १॥" वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि ते भाषन्ते-'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिनक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति !, न सर्व इति दर्शयति-'चिट्ठ' इत्यादि, चिट्ठ-भृशमत्यर्थ 'क्रूरैः' वधबन्धादिभिः 'कर्मभिः' क्रियाभिः 'चिह'मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्ग का॥१८४॥ नादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थ हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेप्वपि नरकेषु नोत्पद्यते, स्यात्-क एवं वर्दतीत्याह-एगे वयंती' त्यादि, 'एके' चतुर्दशपूर्वविदादयो 'वदन्ति' युवते|ऽथवाऽपि ज्ञानी वदति, ज्ञान-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति, यदिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-नाणी' इत्यादि, 'ज्ञानिनः' केवलिनो यद्वदन्त्यथवाऽप्येके-श्रुतकेवलिनो यद्वदन्ति तथार्थभाषिवादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह
आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं च णे मयं च णे विण्णाय च णे उड्ढे अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे-सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अजावेयव्वा परियावेयव्वा परिघेत्तव्वा उपयव्वा, इत्थवि जाणह नत्थित्य दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुदिटुं च मे दुस्सुयं वभे दुम्मयं च भे दुविण्णायं च भे उहूं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जंणं तुम्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पपणवेह-सव्वे पाणा ४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org