________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १७९ ॥
श्रीआचाराङ्गवृत्तिः
(शी० )
11 860 11
120
तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत् अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च 'लोक' जन्तुलोकं दुःखसागरावगाढं 'समेत्य' ज्ञात्वा तदुत्तरणाय 'खेदज्ञैः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदितः' प्रतिपादित इति एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्यैर्यार्थ बभाषे ॥ एनमेत्र सूत्रोक्तमर्थे नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयति
जे जिणवरा अईया जे संपइ जे अणागए काले । सव्वैवि ते अहिंसं वासु वदिहिंति विवादेति ॥ २२३ ॥ छप्पिय जीवनिकाए णोवि हणे णोऽवि अ हणाविज्जा । नोऽवि अ अणुमन्निज्जा सम्मत्तस्सेस निजुन्ती ॥२२७|| [ चतुर्थेऽध्ययने प्रथमोद्देशकनिर्युक्तिः ] गाथाद्वयमपि कण्ठ्यं । तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते (तत्) तद्यथेत्यादिना दर्शयति--' तं जहा - उट्ठिएस वा' इत्यादि, धर्मचरणायोद्यता उत्थिता - ज्ञानदर्शनचारित्रोद्योगवन्तः तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्म्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्म्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्र नागादिषु विचित्रत्वात्कर्म्म|| परिणतः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत् प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते - सङ्गृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्त्तन्त इति सोपधिकास्त द्विपर्ययेणानुपधिकास्तेष्विति, संयोगः - सम्बन्धः पुत्रकलत्र मित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्म्मदेशनाकारि तत् 'तथ्यं' सत्यमेतदिति, शब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं यथाप्ररूपितवस्तु सद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग् मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात्सर्वभूतानी' त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह
तं आइन्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिट्ठेहिं निव्वेयं गच्छिज्जा,
नो लोगस्सेसणं चरे ( सू० १२७ )
'तत्' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय गृहीत्वा तत्कार्याकरणतो 'न निहे'ति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रब्रजनं, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, किं कृत्वा ? - यथा तथाऽवस्थितं धर्मं ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यादित्याह - 'दिट्ठेहिं' इत्यादि, दृष्टैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातैः स्पर्शैः स्पृष्टैः सद्भिरेवं भावयेत् यथा शुभेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च - 'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा - अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'न चरेत्' न विदध्यात् ॥ यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति
जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया ?, दिट्टं सुयं मयं विष्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति ( सू० १२८ )
Jain Education International
यस्य मुमुक्षोरेषा ज्ञातिः - लोकैषणाबुद्धिः 'नास्ति' न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदभुक्तं । भवति - भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावधानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठान परिहारद्वारेण कुतः स्यात् ? । शिष्यमतिस्थैर्यार्थमाह - 'दिन' मित्यादि, यदेतन्मया परिकथ्यते तत्स |
For Private Personal Use Only
सम्य० ४
उद्देशकः १
॥ २७९ ॥
सस्य ५
उद्देशकः १
॥ १८० ॥
www.jainelibrary.org