________________
119
4%AAAAAAARAK
द्वयार्थः ॥ एवमन्तरीक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाह
आहारउवहिपूआ इड्डीसु य गारवेसु कइतवियं । एमेव वारसविहे तवंमि न हु कइतवे समणो ॥ २२५॥
आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमपोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां करोति, तथा गारवेए त्रिषु प्रतिवद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं । सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च तत्त्वार्थश्रद्धानं, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
से वेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइ
खन्ति एवं भासंति एवं पण्णविंति एवं परूविंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परिचित्तव्वा न परियावेयव्वा न उद्दवेयव्या,
एस धम्मे सुद्धे निइए समिञ्च लोयं खेयण्णेहिं पवेइए, तंजहा-उट्ठिएसु वा अणुट्ठिएसु श्रीआचा
वा उवटिपसु वा अणुवढिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु राङ्गवृत्तिः (शी०)
वा अणोवहिएसु वा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्सि
चेयं पवुच्चइ (सू० १२६) ॥१७८॥॥
गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्या| भिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने ६ सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीता:-अतिक्रान्ता ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनः त
एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगा-10 |मिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं, तच्चैवं-पश्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पश्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैसवतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं-पश्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येक चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पश्चस्वपि दशैवेति, तथा च ते
सम्य०४
॥१७८॥
आहुः-"सत्तरसयमुकोसं इअरे दस समयखेत्तजिणमाणं । चोत्तीस पढमदीवे अणंतरऽद्धे य ते दुगुणा ॥१॥" के इमे?-'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते || यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः | मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपय|न्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति-यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यतेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतनामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः-नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्था वैते शब्दाः 'तत्त्वभेदपर्यायः प्रतिपादन मितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतो न परितापयितव्याः शारीरमानसपीडोत्पादनतो नापदावयितव्याः प्राणव्यपरोपणतः 'एषः' अनन्तरोक्तो 'धर्मो' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरपार्थत्वाद्विशेषणं दर्शयति-'शुद्ध' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org