________________
117
स्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास(य)ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ तत्समाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति ॥ ग्रन्थायम् ७९०॥
अथ चतुर्थं सम्यक्त्वाख्यमध्ययनम् । उक्तं तृतीयमध्ययन, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्डीPावनिकायान व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं, तद्वधे च बन्धं विरतिं च भणताऽऽस्रवसंवरपदार्थद्वयमूचे,
तथा लोकविजयाध्ययने लोको यथा वध्यते यथा च मुच्यत इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने तु शी-3 |तोष्णरूपाः परीपहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्य यनत्रयेण सप्तपदार्थात्मक तत्त्वमभिहितं, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्दे|शकाधिकारप्रतिपादनाय तु नियुक्तिकार आह
पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवजतवो न हु बालतवेण मुक्खुत्ति ॥ २१५॥ उद्देसंमि चउत्थे समासवयणेण णियमणं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ।। २१६॥
आ.सू. ३०
tara
श्रीआचा
| प्रथमोद्देशके सम्यग्वाद इत्ययमाधिकारः, सम्यग्-अविपरीता वादः सम्यग्बादो-यथावस्थितवस्त्वाविर्भावनं, द्वि- सम्य०४ राजवृत्तिः तीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषा ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थ-18
उद्देशकः१ (शी०) |स्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्था
धिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सोपवचनेन 'नियमनं भणितं' संयन उक्त इति । तदेवं प्रथमोद्देशके सम्य॥१७५॥
|ग्दर्शनमुक्त, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो
हेती, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं सायनो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह
नामंठवणासम्मं दवसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउब्विहो होइ ॥ २१७ ॥ अक्षरार्थः सुगमः, भावार्थ तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहअह व्वसम्म इच्छाणुलोमियं तेसु तेसु दव्वेसुं। कयसंखयसंजुसो पउत्स जढ भिण्ण छिण्णं वा ॥२१८॥ 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, 'ऐच्छानुलोमिक' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताद्युपाधिभेदेन सप्तधा
॥ १७५॥ भवति, तद्यथा-कृतम्-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलश्रणनिष्पत्तेर्दव्यसम्यकर्तुस्तन्निमित्तचित्तस्वास्थ्योपत्तेः यदर्थ वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्रजी
पोढापरावयवसंस्कारादिति २, तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् | ४, पाठान्तरं वा-'उवउत्त'त्ति यदुपयुक्तम्-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढं-परित्यक्तं यद्धारादि तत्त्यक्तद्रव्यसम्यक् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेभिन्नद्रव्यसम्यक् |६, तथाऽधिकमासादिच्छेदाच्छिन्नसम्यक् ७, सर्वमप्येतत्समाधानकारणत्वाह व्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः॥ भावसम्यक्प्रतिपादनायाहतिविहं तु भावसम्म दसण नाणे तहा चरित्ते य । दसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ २१९ ।।
त्रिविधं भावसम्यक्-दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येक त्रिविधे, तद्यथा| अनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुखादयत औपशमिकं दर्शनम् १, उक्तं च -"ऊसरदेसं दहेलयं च विज्झाइ वणदवो पप्प । इय मिच्छत्ताणुदए उवसमसम्म लहइ जीवो ॥१॥" उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३,
१ऊपरदेशं दग्धं च विध्याति वनवः प्राप्य । एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org