________________
116
AAAA
श्रीआचा- सत्तमासपरिआए सर्णकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कस- शीतो०३ रामवृत्तिः हस्साराणं देवाणं, दसमासपरियाए आणयपाणय आरणचुआणं देवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे (शी०)
Kउद्देशक:४ समणे निग्गंथे अणुत्तरोबवाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं मुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ।"
यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्तते उत नेत्याह॥१७३॥
एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्डी आणाए मेहावी लोगं च आणाए
अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नस्थि असत्थं परेण परं (सू० १२४) 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिक क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकवेणियोग्यो भवतीत्याह–'सड्डी' इत्यादि, श्रद्धा-मोक्षमार्गाद्यमेच्छ। विद्यते यस्यासौ श्रद्धावान् 'आज्ञया' तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । किं च--'लोगं च' इत्यादि, चः समुच्चये 'लोक' पड्डीवनिकायात्मकं कषायलोक वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्डीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयं, कपायलोकप्रत्याख्यानपरिज्ञानाच्च IG ||१७३॥ तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुमिकापायसन्दर्शनतो भयं भवांत ।तच्च भयं शस्त्राद्भवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति?, अस्तीति दर्शयति'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्णतरम स्ति, लोहकर्तृसंस्कारविशेषात् , यदिबा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽर्तिः तस्या ज्वरः ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह-'नत्थि' इत्यादि, 'नास्ति' न विद्यते, किं तद्-'शस्त्रं' संयमः तत् 'परेण पर मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्द्ध गुणस्थानाभावादिति भावः। यो हि क्रोधमुपादानतो बन्धतः
स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्यापीत्येतदेव ६ प्रतिसूत्रं लगयितव्यमित्याह__ जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभ
दंसी, जे लोभदंसी से पिजदंसी, जे पिजदंसी से दोसदंसी, जे दोसदंसी से मो
हदंसी, जे मोहदंसी से गब्भदंसी, जे गन्भदंसी से जम्मदंसी, जे जम्मदंसी से श्रीआचा- मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी शीतो०३ राजवृत्तिः
से दुक्खदंसी । से मेहावी अभिणिवहिज्जा कोहं च माणं च मायं च लोभं च पिजं (शी०)
उद्देशका ४ च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं ॥१७४॥
पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडभि, किमथि
ओवाही पासगस्स? न विजइ ?, नत्थि(सू०१२५) तिबेमि॥शीतोष्णीयाध्ययनम् ३॥ यो हि क्रोध स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यन्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदशीति, सुगमत्वान्न वित्रियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-'से' इत्यादि, स मेधावी 'अभिनिवर्तयेद्' व्यावर्त्तयेत्, किं तत् ?-'क्रोधमित्यादि यावदुःखं', सुगमत्वाव्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतद्' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?-उपरतशस्त्रस्य पर्यन्तकृतः, पुन-2 रपि किम्भूतोऽसौ?-'आयाण मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, 'पश्यकस्य' केवलिनः 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भा- ॥१७४॥ वतोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बू
AXXMOSAMADHANASAMASASARAMAGAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org