________________
114
श्रीआचाराङ्गवृत्तिः (शी०)
॥१७॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पापकाकरणतया दुःख-10 शीतो०३ सहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यूहता च कपायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्दिष्टं प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमु
उद्देशकः । चारयितव्यं, तच्चेदम्
से वंता कोहं च माण च मायं च लोभं च, एयं पासगस्स दंसणं, उवरयसत्थस्स
पलियंतकरस्स, आयाणं सगडब्भि (सू० १२१) 'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपश्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन् , तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्यो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य च क्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य, शैलस्तम्भास्थिका- ॥१७०॥ छतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकडेमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्-सामण्णमणुचरंतस्स कसाया जस्स उकडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामण्णं ॥ १ ॥ अजिअं चरित्तं देसूणाएवि पुवकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २ ॥" । स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शन' सर्व निरावरणत्वासश्यति-उपलभत इति पश्यः स एव पश्यकः-तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह-'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः, भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह-'पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् र्दशनमिति सण्टङ्कः। यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-'आयाण' मित्यादि, आदीयते-गृह्यते
प्रागण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् ॥ १॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोव्या । तदपि आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकार कर्म येन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तरिस्थतेनिमित्तत्वा-1 शीतो०३ कषाया वाऽऽदानं तद्वमिता स्वकृतभिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं| कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि
उद्देशका ४ परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञा-1 नस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् ॥ ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सङ्गि-|| रामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन सतां मनांस्यानन्दयति, युक्तिविकलत्वात् , यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो, यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह__जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ (सू० १२२)
'यः कश्चिदविशषितः 'एक' परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्व स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभाविवाद, इदमेव हेतुहेतुमद्भावेन |
लगयितुमाह-जे सव्व' मित्यादि, यः सर्व संसारोदरविवरवर्ति वस्तु जानाति स एक घटादि वस्तु जानाति, तस्यैवाअनीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्-"एगदवियस्स जे २७१॥
१ एकद्रव्यस्य येऽर्थपर्यवा वचनपर्यवा वाऽपि । तीतानागत भूता(वर्तमाना) तावत्तद् भवति द्रव्यम् ॥१॥
AAAAAAAAXXSHA
श्रीआचा- राङ्गवृत्तिः (शी०)
॥१७१ ॥
KARA****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org