________________
113
CASSESCAAAAAACAR
अप्पा मित्तं अमित्तं च ॥१॥" तथा-"अप्येकं मरणं कुर्यात् , संक्रुद्धो बलवानरिः। मरणानि त्वनन्तानि, जन्मानि
च करोत्ययम् ॥१॥" यो हि निर्वाणनिर्वतकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः ? दकिंफलश्चेत्याह
जं जाणिजा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्टिए मेहावी मारं तरइ, सहिओ धम्म
मायाय सेयं समणुपस्सइ (सू० ११८) 'यं' पुरुष 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिक'मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह-'जं जाणेजे'त्यादि, य जानीयादूरालयिकं तं जानीयादुञ्चालयितारमिति, एतदुक्तं भवति-यो हि कर्मणां तदास्रवद्वाराणां चोच्चालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा|| सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते-'पुरिसा' इत्यादि, हे जीव! आत्मान-1
मेवाभिनिगृह्य धर्मध्यानाद्वहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखात्सकाशादात्मान | आ. सू. २९ मोआचा- 1प्रमोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च-'पुरिसा' इत्यादि, हे पुरुष! सद्भ्यो हितः
शीतो०३ राजवृत्तिः सत्यः-संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि-आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहि-8
उद्देशकः३ - (शी०) गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः-आगमस्तपरिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति
चेदाह-सच्चस्से'त्यादि, सत्यस्य-आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किं च-'सही'त्यादि, स॥१९॥
हितो-ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा, किं करोतीत्याह-श्रेयः'। पुण्यमात्महितं वा सम्यग्-अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाच, तद्विपर्ययमाह
दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति (११९) द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमहिकामुष्मिकार्थ वा यदिवा द्वाभ्या-रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद-जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तते, परिवन्दन-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनं, तथा माननार्थ कर्मोपचिनोति, दृष्टीरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रमहर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः
॥१९॥ कर्मास्रवरात्मानं भावयन्ति, मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां | करिष्यतीत्यादि पूजनं, तदेवमर्थ कर्मोपचिनोति । किच-'जंसि एगे'इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः ॥ एतद्विपरीतं त्वाह
सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइ
(१२०) तिबेमि ॥ तृतीय उद्देशो ३-३॥ सहितो-ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् 'नो झंझाए'त्ति नो व्याकुलितमतिभवेत् , तदपनयनाय नोद्यच्छेद् , इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्र-1 कारामपि व्याकुलतां परित्यजेदिति भावः । किं च-पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थ पश्य-परिच्छिन्द्धि कर्तव्याकर्तव्यतया विवेकेनावधारय, कोऽसौ ?-द्रव्यभूतो-मुक्तिगमनयोग्यः साधुरित्यर्थः, 3 एवम्भूतश्च कं गुणमवाप्नोति ?-आलोक्यत इत्यालोकः, कर्मणि घञ्, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः-पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-जारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय-1 (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं, तदेवम्भूतात्मपश्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशाों न भवतीतियावद् । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता ॥
ROCOCONSURANAGANA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org