________________
112
62-%
*SHAKAACAR
॥१६७॥
श्रीआचा- 'न स्मरन्ति' न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकान्ति, किं च-अस्य | शीतो०३ राङ्गवृत्तिः जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते-एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् काल
उद्देशका (शी०)
शरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-"अवरेण पुव्वं किह से अतीतं. किह आगमिस्सं न सरंति ॥१६७॥
एगे । भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ॥१॥" अपरेण-जन्मादिना सार्द्ध पूर्वम्-अतिकान्तं जन्मादि न स्मरन्ति, 'कथं वा' केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः
सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिकान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तहिरवेदिन इत्येतद्दर्शयितुमाह-'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गतं-गमनं येषां ते तथागता:-सिद्धाः, यदिवा
यथैव ज्ञेयं तथैव गतं-ज्ञानं येषां ते तथागताः-सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थ, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थ विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलपन्ति वा, के?, तथागता:-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-'विहूय कप्पे' इत्यादि, विविधम्-अनेकधा धूतम्-अपनीतमष्टप्रकारं कर्म येन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदीं भवति, अतीता
नागतसुखाभिलाषी न भवतीतियावत्, एतदनुदी च किंगुणो भवतीत्याह-'निज्झोस' इत्यादि, पूर्वोपचितक४ार्मणां निझोषयिता-झपक क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं था। कर्मक्षपणायोद्यतस्य च धर्माध्यायिनः शुक्लध्या-18 यिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति
का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सव्वं हासं परिचज आलीणगुत्तो परि
व्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि ? (सू० ११७ ) इष्टाप्रातिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावातावानन्दः, योगिचित्तस्य तु धर्मशुक्लध्यानावेशाविष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते-केयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तीरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापनमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरति वकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह-एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो'
गार्स तापर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवति-शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निश्रीआचा- |मित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह-सव्व' मित्यादि, सर्व हास्यं तदास्पदं
वाशीतो०३ रावृत्तिः परित्यज्याइ-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ (शी०) गुप्तथालीनगुप्तः स एवम्भूतः परिः-समन्ताजेत् परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मसा
उद्देशका ३ हामात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति-'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलबधनधान्य॥१६८॥
हिरण्यादितया अकिश्चनस्य समतृणमणिमुक्तालेष्टुकाश्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राधाशंसा भवेसदपनोदार्थमाह-'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो-जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाचति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनानुशास्यते-यथा हे पुरुष-हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययाञ्चामित्रः, किमिति बहिमित्रमिच्छसि !-मृगयसे, यतो चुपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय | नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासी, इदमुक्कं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात्, विपर्ययाच्च विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टो. दयनिमित्तत्वादौपचारिक इति, उक्त हि-"दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं । सुहदुक्खकारणाओ ॥१६८॥
१ दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितय ते मित्रम् । सुखदुःखकारणात् आत्मा मित्रममित्रश्च ॥१॥
*
*
GANGACACACA
ॐ*
२-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org