________________
111
ARREARRIA
समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुहुएहि य, आगई गई परिणाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ न
भिजइ न डज्झइ न हमइ कंचणं सव्वलोए (सू० ११६) समभावः समता तां तत्रात्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं ल । जादिना जनविदितं चोपवासादि तत्सर्व मुनिभावकारणमिति, यदिवा समयम्-आगमं तत्रोप्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद्' विविध प्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च-'अणण्णपरम मित्याद्यनुष्टुप् , न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत्' तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा' सर्व| कालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विष
यानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच-"आहारार्थ कर्म कुर्यादनिन्ध, श्रीआचा- स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥१॥" सैवात्मगुप्तता शीतो. रामतिः कथं स्यादिति चेदाह-'विराग' मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, (शी रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महता-दिव्यभावन यय- उद्देशका ३
वस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुलं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति-"विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुङ जाणित्ता, से न लिप्पइ दोसुवि ॥१॥" शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः-परमार्थतः सुष्टु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते , तदकरणादिति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगई' मित्यादि, आगमनम्-आगतिः सा च तिर्यमनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोद्धेधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्वाप्रत्ययस्योत्तरक्रियामाह-से' इ-18 त्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्ध्यत्येव, तदवस्थस्य चैतानि छेदनादीनि 18॥१६॥ विशेषणानि 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः। अपरे च साम्प्रतेक्षिणः कुतो वयमागताः क यास्यामः? किंवा तत्र नः सम्पत्स्यते ?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह
अवरेण पुट्विं न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥ नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति ___तहागया उ। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥२॥
रूपकं, 'अपरेण' पश्चात्कालभाविना सह पूर्वमतिकान्तं न स्मरन्त्ये केऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य |जन्तोनरकादिभवोद्भूतं. बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिहालाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च-"केण
ममेत्थुप्पत्ती कह इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो ॥१॥" एके पुनमहामिथ्याज्ञानिनो भाषन्ते–'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविशूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवा न विद्यते पर:-प्रधानोऽस्मादित्यपरः-संयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि
१केन ममात्रोत्पत्तिः केतः तथा पुनरपि गन्तव्यम् । य इयदपि चिन्तयति अत्र स कः न निर्विष्णः ॥१॥
पचतं वा दुःखाद्यतीत किंवा संसाररतिः स्यादिति ॥ १॥ एके पुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org