SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 110 4444MAC - % % % % श्रीआचा- लोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्माल्लो- शीतो०३ राङ्गवृत्तिः भाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः-वधाद्विरतः स्यात्, किं च'छिंदिज' इत्यादि, शोकं भावोतो वा छिन्द्यात्-अपनयेत्, किम्भूतो?-लघुभूतो-मोक्षः संयमो वा तं गन्तुं शील उद्देशक:२ (शी.) मस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, पुनरप्युपदेशदानायाह-गन्ध' मित्यादि, ॥१६४॥ 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्य जेत् , किं च-'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह-'उम्मज लडु'मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारइदे जीवकच्छपः श्रुजतिश्रद्धासंयमवीर्यरूपमुन्मजनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णगोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाप्रत्ययस्योत्तर-18 क्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्-पश्चेन्द्रियत्रिविधबलोच्छासनिश्वासायुष्कलक्षणान् ‘नो समारभेधाः' न व्यपरोपयः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः । परिसमाप्तौ, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोदेशकटीका समाप्तेति । उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य पायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितं, न च तत्सहनेनैव मंयमानुष्ठानरहितेन पापकर्माकरणतया या श्रमणो भवतीत्येतत् प्रागुदेशार्थाधिकारनि-1 ॥१६४ ॥ दिष्टमुच्यते, ततोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुचारयितव्यं, तवेदम् संधि लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हता न विधायए, जमिणं अन्न मन्नवितिगिच्छाए पडिलेहाए न करेड पावं कम्मं, किंतस्थ मुणी कारणं सिया? (स०११५) तत्र सन्धिद्रव्यतो भावतश्च, तत्र द्रव्यतः कुख्यादिविवरं भावतः कर्मविवरं, तत्र दर्शनमोहनार्य यदुदीर्ण तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धि - नदर्शनचारित्राध्यवसायस्थ कर्मोदयात् त्रुव्यतःपुनः सन्धान-मीलनम् , एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शनचारित्राहे भावसन्धि ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्य-भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्रात्मौपम्यं समाचरेदि त्याह-'आयओ' इत्यादि, यथा ह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य' अवधारय । तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपि जन्तवो दुःश्वद्विषः सुखलिप्सवस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यान्नाप्यपरैस्तान् जन्तून मिविधैः-नानाप्रकारैम्पाश्रीआचा- यैर्यातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सस्वान् स्वयं पापण्डिनो न नन्ति तथाऽप्यौदेशिकसन्निध्याविपरिभो- शीतो०३ रावृत्तिः गानुमतेरपरैर्घातयन्ति । न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिण' मित्यादि, यदिदं उद्देशक:३ (शी०) यदेतत् पापकर्माकरणताकारणं, किं तद् !, दर्शयति-अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात्, किं मुनिरितिकृत्वा पापकर्म न करोति !, काका ४ पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तालापानुष्ठान विधायी न समझे किमेतावतैव मुनिरसी ?, नैव मुनिरित्यर्थः || अद्रोहाध्यवसायो हि मुनिभावकारणं, स च तत्र न विद्यते, अपरोपाध्यावेशात् , विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विनेति ?, आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु-'जमिण'मित्यादि, अपरोपाधिनिरस्त हेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितदाक्रियस्य मुनिभावो नान्यथेति, अयं तावनिश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहातभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनिचिदाधाकम्मोदि परिहरन् | प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः कराति, तत्र तस्य मुनिमाव एय कारणं, तळ्यापारापादितपारम्पर्य शुभाध्यवसायोपपत्तेः ॥ तदेवं शुभान्तःकरणब्यापारविकलस्य मुनित्वे G ॥१६५॥ सदसझावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आह % % % %+ ++ NERA C C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy