________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १६३ ॥
109
अगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अण्णपरियाare अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणत्रयपरिग्गहाए (सू० ११३) अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासाव नेकचित्तः, खलुरवधारणे, संसारसुखाभिलाप्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति । यश्चानेकचित्तो भवति स किं कुर्यादित्याह - 'से केयण' मित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभृतपूर्व पुरयितुमर्हति, अर्थितया शक्याशक्य विचा राक्षमोऽशक्यानुष्ठानेऽपि प्रवर्त्तत इत्युक्तं भवति, स च लोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह -- ' से अण्णवहाए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्बधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय - दस्युरयं पिशुनो वेत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः ॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्व्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति
आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्टिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं णच्चा, अणण्णं चर माहणे, से न छणेन छणावए छणतं नाणुजाण, निविंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं (सू०११४)
एवम् - अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य ' इत्येवे 'ति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह - 'तम्हा' यस्माद्वान्तभोगतया कृतप्रति| ज्ञस्तस्माद्भोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- 'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा 'ज्ञानी' तत्त्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- 'उबवायं चवणं णच्चा' उपपातं जन्म च्यवनं - पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह - 'अणण्ण' मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः - ज्ञानादिकस्तं चर 'माहण' इति मुनिः । किं च- 'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रत सिद्धये त्विदमुपदिश्यते - 'निविंद' ॥ १६३ ॥ इत्यादि, निर्विन्दस्व - जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं किम्भूतः सन् १ 'प्रजासु' स्त्रीषु अरक्को - रागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्र पुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तम धर्मपालनार्थमाह- 'अणोम' इत्यादि, अवमं - हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं शीलमस्ये| त्यनवमदर्शी सम्यन्नर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्वानवमसंदर्शी स किम्भूतो भवतीत्याह - ' निसन्न' इत्यादि, पापोपादानेभ्यः कर्म्मभ्यो निषण्णो- निर्विण्णः पापकर्म्मभ्यः पापकर्म्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ॥ किं च
Jain Education International
कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, छिंदिज्ज सोयं लहुभूयगामी ॥ १ ॥ गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिण्णाय चरिज दंते । उम्मज लहुं इह माणवेहिं, नो पाणिणं पाणे समारभिज्जा ॥२॥ सित्तिमि । द्वितीय उद्देशकः ३-२ ॥
क्रोध आदिर्येषां ते क्रोधादयः मीयते परिच्छिद्यतेऽनेनेति मानं-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वा यो मानो - गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ १- वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह - 'लोहस्स' इत्यादि, लोभस्यानन्तानुबन्ध्या देश्वतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः- “मच्छा मणुआ य सत्तमिं पुढविं” ते च महा
शीतो० ३
उद्देशकः २
For Private Personal Use Only
www.jainelibrary.org