________________
106
श्रीआचा-|हिंसायां' क्षणनं-हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत् , पाठान्तरं वा 'कम्ममाहूयाबीनो राङ्गवृत्तिः जं छण' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं काहय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति-अ
ज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोनिवृत्ति विदध्यादिति, उद्देशकः २
पुनरप्युपदेशदानायाह-'पडिलेहि' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व 'समादाय' गृहीत्वा ॥१५८॥
अन्तहेतुत्वादन्तौ-रागद्वेषो ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञा'| विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषडुर्ग वाऽष्टप्रकारं वा कर्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत । इति शीतोष्णीयाध्ययनप्रथमोद्दशकटीका समाप्ता । | उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्जाइं च बुद्धिं च इहऽज ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति
॥१५८॥ णच्चा, संमत्तदंसी न करेइ पावं ॥१॥ जाति:-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइ|मप्पणो॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥२॥"13 तथा-'हीणभिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥३॥ इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य ! जातिं वृद्धिं च तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं-भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-"यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥” यद्येवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स
१जायमानस्य यदुःखं म्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातु
रात्मनोऽपि च वेदनामतुलां जनयन् ॥ २॥ हीनभिन्नखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् ॥ ३ ॥ भीआचा- 'परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदशी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । शीतो०३ पापस्य च मूलं सोहपाशास्तदपनोदार्थमाह
Gउद्देशका उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचयं क॥१५९॥
रंति, संसिच्चमाणा पुरिति गम्भं ॥२॥ 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन 'मुश्च' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिसादीनि पापान्यारभते अतोऽपदिश्यते-आरंभ' इत्यादि, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च–'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धा:-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपू
र्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृद तात्मा किंभूतो भवतीत्याहअवि से हासमासज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्ढेइ अप्पणो॥३॥
॥१५९॥ हीमयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृभुर्हत्वाऽपि प्राणिनो 'नन्दी ति क्रीडेति मन्यते,
XXXXXX--/-%%%%%%%%
(शी०)
*A4%*
कलकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org