SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 105 AAAAA-MASAMACARSAAS ५.44 पकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्का जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतो देशानां पूर्वकोटिं यावत्, पुनरूद्धे पञ्चहस्वाक्षरोगिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्माता। दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं २। मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोदलने सम्यगमिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोदलनेऽनादिमिथ्यादृष्टेर्वा पड्रिंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्धलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, सायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेद क्षये सत्येकादश १०, हास्यादिषट्क्षये पञ्च ११, पुंवेदाभावे चत्वारि १२, सवलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४, श्रीआचा- मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा-परभवा-| शीतो०३ राजवृत्तिः युष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति । नानो द्वादश सत्कर्मतास्थानानि, तद्यथा-त्रिन(शी०) वतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ पडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ षट्स-1 पतिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-तयश्चतस्रः ४ पञ्च जात ५ पञ्च शरीराणि ५ ॥१५७॥ पश्च साताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् ६ वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पश्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलधूपघातपराघातोच्छासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोदलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्य बनतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य पडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोदलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोदलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकरेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्ष-10॥ पितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता||3|| ततस्त्रयोदशनान्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसकप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृति व्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति १ पञ्चेदन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यश-कीर्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां विभ्रति, शेषास्तु एकसप्ततिः सप्तपष्टिर्वा द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथाउच्चनीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानं, तेजोवायूच्चैर्गोत्रोदलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मातेति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिनाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि (सू० ११०) तिबेमि ॥ शीतोष्णीयोदेशः १॥ कर्मणो मूल-कारणं मिथ्यात्वाविरतिप्रमादकपाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण'मिति 'क्षणु SOCRACCRACACACANCACANCY Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy