________________
107
RSONNECTORREARSHAGAWARKARK
शीतो.
श्रीआचाराजवृत्तिः (शी०)
॥१६॥
वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयाथै सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृपावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिस नालं, किमिति चेद्?, उच्यते, 'वेर'मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्वालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि विषयसङ्गादावायोज्यं ॥ यतश्चैवमतः किमित्याह
तम्हातिविजो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच
धीरे, पलिच्छिदिया णं निकम्मदंसी ॥४॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह-आर्यके'त्यादि, आतङ्को-नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स 'पाप' पापानुबन्धि कर्म न करोति, उपलक्षणार्थवान कारयति नानुमन्यते । पुनरप्युपदेशदानायाह-'अग्गं च'इत्यादि, अग्रंभवोपमाहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वगं, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंच' इति त्यजापनय पृथकरु, तदनेनेदमुक्तं भवति-न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथकरणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्त च-"न माहमातवृत्त्य बन्ध उदितस्त्वया कर्मणां, न कविधवन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष । न च बध्यते नासकृत्वयाऽतिकुटिला गतिः कुशल! कर्मणां दर्शिता ॥१॥" तथा चागमः-“कहण्णं भंते ! जीवा अह कम्मपगडीओ बंधति !, गोयमा! णाणावरणिजस्स उदएणं दरिसणावरणिज कम्मं नियच्छइ, दरिसणावरणिजस्स कम्मस्स उदएणं दसणमोहणीयं कम्मं नियच्छइ, ईसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिणेणं एवं खलु जीवे अहकम्मपगडीओ बंधई", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च-"नायगंमि हते संते, जहा सेणा विणस्सई। एवं कम्मा विणस्संति, मोहणिजे लयं गए ॥१॥" इत्यादि, अथवा मूलम्-असंयमः कर्म वा, अग्र-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽयधारय । किं च–'पलिच्छिदिया ण'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलब निष्कर्मत्वाद्धा अपगतावरणः सर्वदशी सर्वज्ञानी च भवति ॥ यश्च निकर्मदी भवति सोऽपरं किमाप्नुयादित्याह
कथं भदन्त ! जीवा अष्ट कर्मप्रकृतीनन्ति !, गौतम! ज्ञानावरणीयस्योदयेन दर्शनावरणीयं कर्म बनन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनी कर्म बनन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बान्ति, मिथ्यात्वेनोदितेनैवं खल जीवा अष्ट कर्मप्रकृतीभ्रन्ति ॥ १ नायके हते सति यथा सेना विनश्यति । एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते ॥१॥
एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते
समिए सहिए सया जए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं (सू० १९१) 'एष' ३त्यनन्तरोक्को मूलाग्ररेचको निष्कर्मदी मरणाद-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावात्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से | हु' इत्यादि, 'सः' अनन्तरोक्को मुनिदृष्टं संसाराय सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमायेति परमदर्शी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्वायमनन्तरोको गुणोपन्यास इत्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकासितुं शीलमस्येति कालाकाङ्की स एवम्भूतः परिः-समन्तात्ब्रजेपरिव्रजेत् , यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्कमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्थादेतत्-किमर्थ एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्था
१६.॥
A 4%A8%AAAA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org