________________
101
भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः॥ साम्प्रतं सुखपदविवरणायाहनिव्वाणसुहं सायं सीईभूयं पयं अणायाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उण्हं ॥ २०८॥ सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नापरम् , एतच्च समस्तकम्र्मोपतापाभावाच्छीतमिति दर्शयति–'निर्वाणसुख'मिति, निर्वाणम्-अशेषकर्मक्ष-18 यस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् , अस्य चैकार्थिकानि-सात शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किचित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआल्हादादू, एतद्विपयर्यस्तु दुःखं, तच्चोष्णमिति गाथार्थः॥ कपायादिपदव्याचिख्यासयाह_ डज्झइ तिब्वकसाओ सोगभिभूओ उइन्नवेओ य । उण्हयरो होइ तवो कसायमाईवि जं डहह ॥२०९॥ . PL 'दह्यते' परिपच्यते, कोऽसौ ?-तीवा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना
दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तमाप्त्यभावे कासोद्भतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन
4%A4%EXXX
था. सू. २६ श्रीआचा
राङ्गवृत्तिः
(शी०)
॥१५१॥
-AAMRAP-RSSEXSACCAAAAAAAAA%
ARSAKARANA
दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशन्दाच्छोकादिपरिग्रह इति गाथार्थः शीतो. येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीपहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति
उद्देशकः१ सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो । हुज्ज समणो सया उजुओ य तवसंजमोवसमे ॥ २१०॥ शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत् , शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीषहकसायवेदशोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोद्युक्तश्च, क-तपःसंयमोपशमे इति गाथार्थः॥ साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति
सीयाणि य उपहाणि य भिक्खूणं हुंति विसहियव्वाइं। कामा न सेवियब्वा सीओसणिजस्स निजुत्ती ॥२१॥ x. 'शीतानि' परीपहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'भिक्षूणां' मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह-कामा' इत्यादि गाथाई सुगम । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोपत्रातविकलं सूत्रमुच्चारयितव्यं, तच्चेदम्
॥१५१॥ सुत्ता अमुणी सया मुणिणो जागरंति (सू० १०५) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्तमनुपरिवर्तन्ते इति, उक्तं च-"नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥१॥” इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्र-10 मादवन्तो द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये 'अमुनयः' मिथ्यादृष्टयः सततं || भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया तु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्-अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कचिद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगादसुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुंति । धम्मं पडुच एवं निद्दामुत्तेण भइयब्वं ॥ २१२॥
सुप्ता द्विधा-द्रव्यतो भावतच, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यास्वाज्ञानावृता हिंसाधानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थ निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा न वा, यद्यसौ भावसो जागर्ति ततो निद्रासुतस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति !,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org