________________
100
*44425
**4444444442
श्रीआचा- तेणेव य पुढो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः,
शीतो०३ राङ्गवृत्तिः | विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः । (शी०) नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह
उद्देशका १ नाम ठवणा सीयं दवे भावे य होइ नायब्वं । एमेव य उपहस्सवि चउब्बिहो होह निक्खेवो ॥२०॥ ॥१४९॥
सुगमा । तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह- . दब्वे सीयलद्व्वं दव्वुण्डं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ २०१॥
ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीत-हिमतुपारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षड् भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभवकषायोसत्तिलक्षणः उष्णः, औपशमिकः कम्र्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति ॥ अस्य च जीवभावगुणस्य शीतोष्णविवेक स्वत एव नियुक्तिकारः प्रचिकटयिषुराह
४ ॥१४९॥ सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहिवेयारई दुक्खं ॥२०२॥ दारं । __ 'शीत'मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरतिरिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्वं परीपहादि शीतमुष्णं च गाथाशकलेनाह-परीषहाः-पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेदः' स्त्रीनपुंसकवेदोदयः 'अरतिः' मोहनीयविपाकाञ्चित्तदौःस्थ्यं 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीपहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थ तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह
इत्थी सक्कारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्या ॥२०३॥ स्त्रीपरीपहः सत्कारपरीषहश्च द्वावप्येतौ शीती, भावमनोऽनुकूलत्वात् , शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टेजे तिब्वप्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदप्परिणामा परीसहा ते भवे सीया॥२०४॥ दारं।
तीनो-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति,
इदमुक्तं भवति-ये शरीरदुःखोलादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीत्रपरिणामत्वादुष्णाः, ये पुनश्रीभाचा- रुदीर्णाः शारीरमेव केवलं दुःखमुत्सादयन्ति महासत्त्वस्य न मानसं ते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरिरावृत्तिः णामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः-ईपलक्ष्यमाणस्वरूपास्ते शीता इति । यसरीषहानन्तरं प्रमा-8 (शी०) दपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे
उद्देशक धमंमि जो पमायइ अत्थे वा सीअलुत्ति तं विति । उजुत्तं पुण असं तत्तो उहंति णं बिति ।। २०५॥ दारं। ॥१५॥
| 'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यम विधत्ते 'अर्थे वा' अर्थ्यत इत्यर्थो-धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं 'इवते' आचक्षते, उद्युक्तं पुनरन्यं ततः-संयमोद्यमात् कारणादुष्णमित्येवं ब्रुवते, णमिति वाक्यालङ्कार इति गाथार्थः । उपशमपदव्याचिख्यासयाऽऽहसीईभूओ परिनिब्वुओ य संतोतहेव पण्हाणो (ल्हाओ)होउवसंतकसाओतेणुवसंतो भवे जीवो॥२०६॥ वारं। | उपशमो हि क्रोधाद्युदयाभावे भवति, ततश्च कषायायुपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिवृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रहादितः' आपन्नसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थिकानि वैतानीति गाथार्थः ॥ अधुना विरतिपदव्याख्यामाहअभयकरो जीवाणं सीयघरो संजमो भवइ सीओ।अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ॥२०७॥दारं।
॥१५॥ अभयकरण शीलः, केषां -जीवानां, शीत-सुखं तद्नुह-तदावासः, कोऽसौ-संयमः सप्तदशभेदः, अतोऽसौ शीतो
SARKASARA
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org