________________
99
यवानिव न बद्धोऽधापि तत्सत्कर्मतासद्भावान्नो मुक्त इति । एवम्भूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति
से जं च आरभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्नं च सव्वसो (सू० १०३) _ 'स' कुशलो यदारभत आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात् , तन्निषेधे - विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह'अणारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्ण केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षु रमते-न कुर्यादित्युपदेशो, यञ्च मोक्षाङ्गमाचीर्ण तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह-'छणं छणं' इत्यादि, 'क्षणु । हिंसायां' क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोपद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति ।
किं च-'लोयसन्नं' इत्यादि, 'लोकस्य' गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वाजनितसुखेच्छा परिग्रहसंज्ञा वा तां
हाच ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं'सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवंश्रीआचा- विधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्स- लोक.वि.२ राङ्गवृत्तिः थव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति(शी०)
उद्देशका उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खा॥१४८॥ ____णमेव आवढे अणुपरियदृइ (सू० १०४) त्ति बेमि ॥ लोकविजयाध्ययनम् २॥
उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स 'पश्यकस्य' परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्ति यावत्तृतीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ (ग्रन्थानम्, २५००)। उक्तः षष्ठोद्देशकः॥ तत्सरिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्यते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येक मिथ्यादृष्टित्वम्, अतः पडग्वन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते ॥ इति लोकविजयाध्ययनस्य टीका समाप्ता ॥२॥
श्रीआचाराने इतिश्रीशीलाङ्काचार्यवृत्तियुतं लोकविजयाध्ययनं द्वितीयम्
__ अथ तृतीयमध्ययनं शीतोष्णीयं ।
दरम
उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथा शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाप्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रति-4 लोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आहपढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अणुहवंति शतइए नहुदुक्खेणं अकरणयाए व समणुत्ति ३॥१९८॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ विउणो उ संजमो इत्थ मुल्पुत्ति ४ ॥ १९९।।
प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यविवेकरहिताः, के?-असंयताः-गृहस्थास्तेषां च भावसुसाना दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-'जरामचुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता र यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-कामेसु गिद्धा निचर्य करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च-'सहिए दुक्खमायाय
तु नियुक्तिकालान्त, तत्रोपकम्पक सोडव्या पायादिलोकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org