________________
98
लोक.वि.२ उद्देशकः६
॥१४६॥
श्रीआचा
अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो राङ्गवृत्तिः दण्डकशादिना ताडयेदिति, उक्तं च-तत्थेव य निवणं बंधण निच्छुभण कडगमद्दो वा । निविसयं व नरिंदो करेज (शी०) संघपि सो कुद्धो॥१॥" तथा तञ्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भलिगृहोपाख्यानाद्रौद्रो
वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्य धर्मफलोप॥१४६॥
दर्शनेनेति । एवमविधिकथनेनेहैव तावद्धाधा, आमुप्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-'एत्थं पि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः' पुण्यमित्येतनास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह-'एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विचते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च-"सावजणवजाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते–'कोऽयं'
१ तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं वा । निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः ॥ १॥ २ सावधानवद्ययोर्वचनयोर्यो न जानाति [विशेषम् । वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम् ? ॥ १॥ इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेष नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः-क्षेत्रतः किमिदं क्षेत्रं तच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एवं नास्तीति, उक्तं च-"जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥१॥" य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्यापुण्यवतोर्धर्मकथासमदृष्टिविधिज्ञः श्रोतृविवेचकः
'एषः' अनन्तरोक्तो 'वीरः कर्मविदारकः 'प्रशंसितः' श्लाषितः । किंभूतश्च यो भवतीत्याह--'जे बद्धे' इत्यादि, यो दष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना, स च तीर्थकृद्गणधर
आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । व पुनर्व्यवस्थितान जन्तून् मोचयतीत्याह-'उडे' इत्यादि, ऊर्दू ज्योतिकादीन् अधो भवनपत्यादीन तिर्यक्षु मनुष्यादीनिति । किं च-'से सबओ' इत्यादि, 'स' इति वीरो बद्धप्रतिमोचकः | 'सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितः सर्वसंवरचारित्रो
१ यो हेतवादपक्षे हेतुक आगमे आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ॥१॥ श्रीआचा- पेतो वा, स एवंभूतः के गुणमवानोतीत्याह-न लिप्पईत्यादि, 'न लिप्यते' नावगुण्ठयते, केन?-क्षणपदेन' हिंसास्पदेन रागवृत्तिः
प्राण्युपमर्दजानेतेन, 'क्षणु हिंसायामि त्यस्यैतद्रूपं । कोऽसौ ?, वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीत्याह(शी०)
'से मेहावी'त्यादि, स 'मेधावी बुद्धिमान् यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिक संसारमित्यणं॥१४७॥ कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः
कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकमाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयानो बद्धो भवोपग्राहिकर्मसद्भावानो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद
लोक.वि.२ उद्देशक
॥१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org