________________
श्रीआचाराङ्गवृत्तिः
(शी०)
।। १४५ ।।
97
ममत्व कृतस्तमत्ये ते, अथवा लोको वाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्य वा अष्टप्रकारं कर्म्म तेन सार्द्ध संयोगमत्येति - अतिलक्ष्यतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह – 'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः' एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते - मोक्षप्रापकोऽभिधीयते सदुपदेशात् । स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह
परिन्नाय सव्वसो जे अणन्नदंसी से जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ ( सू० १०१ )
जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इइ कम्मं अणन्नारामे जे अणण्णारामे से अणन्नदंसी, कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स
यद्दुःखं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे ' मानवाना' जन्तूनां ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्म्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्| उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च परिहरन्ति परिहारयन्ति च । किं च - ' इति कम्मं' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तद्दुःखं कर्म्मकृतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च तद्यथा-ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्त्तेत, अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्द्दशपूर्वविदो वा यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीटकथेत्याह -- 'जे' इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा | नासावनन्यदर्श - यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो ? - यः सम्यग्दृष्टिर्मोनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो- मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह - 'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति उक्तं च - " शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबीद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः ॥ १ ॥" इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारकद्विष्टः | कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्त्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते 'तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो
१ कथाचतुष्टयलक्षणं त्विदं-- स्थाप्यते हेतुदृष्टान्तैः खमतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं, सा कथाऽऽक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र, पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिः, सा च चिक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भव्यानां सा च विद्वद्भिः प्रोक्ता संवेदनी कथा ॥३॥ यत्र संसारभोगानस्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः, सोता निर्वेदनीकथा ॥ ४ ॥
जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति उक्तं च-- "ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ १ ॥” एतदुक्तं भवति - यथा द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवर्त्यादेरपि यथा वा चक्रवर्त्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः - एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्त्तमानेन कथनीयं किमसावभिगृहीतमिथ्याह|ष्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकै युद्धाहितः स्वत एव वा ?, तस्य चैवम्भूतस्य यद्येवं कथ|येद्यथा--" दश सूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १||” तद्भक्तिविषयरुद्रा| दिदेवताभवनचरितकथने च मोहोदयात्तथाविधकम्र्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह चअवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उङ्कं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण, वीरे से मेहावी अणुग्धायणखेयन्ने, जे य बन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ( सू० १०२ )
१ तादारुवन० प्र.
Jain Education International
For Private Personal Use Only
लोक. वि. २
उद्देशकः ६
॥ १४५ ॥
www.jainelibrary.org