________________
96
श्रीआचा- यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च दाविर राङ्गवृत्तिः मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनो(शी०) ज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाचेतरेषामप्युपादानं द्रष्टव्यं, सत्राप्यतिसहनं उद्देशका ६
है विधेयमिति, उक्तं-"सद्देसु अ भयपावएसु, सोयविसयमुवगएसु । तुडेण व रुटेण व समणेण सया न होअव्वं ॥१॥ ॥१४३॥
एवं रूवेसु अ भद्दयपाबएसु० । तहा गंधेसु अ०॥” इत्यादि वाच्यं, ततश्च शब्दादीविषयानतिसहमानः किं कुर्या-1 दित्याह-निविंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व-जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिनन्दिस्ताम् 'इह' मनुष्यलोके यजीवितमसंयमजीवितं वा तस्य या नन्दिः-तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति?, उक्तं च-विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥" एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारदृष्टान्तेनेति, अथवा पश्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्-किमालम्ब्य करोतीत्याह-'मुणी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः-संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम् , अस्य
चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् १-धुनीयात् कर्मशरीरकं औदारिकादिश-IN IPL १ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा इष्टेन वा श्रमणेन सदा न भवितव्यम् ॥ एवं रूपेषु च भद्रकपापकेषु । तथा गन्धेषु च.
रीरं वा, अथवा 'धुनीहि विवेचय पृथकुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कर्ष तहरीरकं पूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह-प्रान्त' स्वाभाविकरसरहितं स्वल्पं या 'सक्षम् आगन्तुकनेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं-द्वेषरहितं विगतधूम रूक्ष-रागरहितमपगताकारं 'सेवन्ते' भुञ्जते, के ?-'वीराः' साधवः, किंभूताः'समत्वदर्शिनः' रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा-सम्यक् तत्त्वं सम्यक्त्वं सद्दर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेकी समत्वदशी च कं गुणमयामोतीत्याह-'एस' इत्यादि, एष इति प्रान्तरुक्षाहारसेवनेन काविशरीरं धुनानो भावतो भवौर्घ तरतीति । कोऽसौ ?–'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौषं, कश्च भवौघं तरति ?-यो 'मुक्तः' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन पा विख्यातो मुनिः स एव भयोघं तरति, तीर्ण एवेति | |वा स्थितम् । इतिरधिकार परिसमाप्तौ, प्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह
दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसं
जोगं, एस नाए पवुञ्चइ (सू० १००) श्रीआचा- वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं लोक.वि.२ रागवृत्तिः यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः-मोक्षगमनायोग्यः, स च कुतो भवति ?-अनाज्ञया(शी०) तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य
उद्देशक सर्व यथासम्भवमायोज्यं, तथाहि-मिथ्यात्वमोहिते लोके संबोद्धं दुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं ॥१४४॥
शब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम् , एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम् , असहने च कर्मोदयोऽनाद्यतीतकालसुखभावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह-तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच, आह च-'एस' इत्यादि, 'एष' इति सुक्सुमुनिर्ज्ञानाधरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् 'प्रशंसितः' तद्विद्भिः श्लाषित इति । किं च-'अच्चेईत्यादि, स ॥१४४॥ एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति, कं?-'लोकसंयोग' लोकेनासंयतलोकेन संयोगः-सम्बन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org