________________
95
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.. उद्देशका
॥१४२॥
प्राणिनः स्वकीयेन कर्मणा यस्मिन् स पयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवाकारणे कार्योपचारात् स्वकीयेन नानाविषप्रमादकृतेन कर्मणा धयः-अबस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातबालादिग्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीड्यन्ते इति दर्शयितुमाह-जसिमें' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाचवस्थाविशेषे वा 'इम' प्रत्यक्षगोचरीभूताः 'प्राणा'इत्यभेदोपचारामाणिनः 'प्रग्यथिताः' नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रम्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमता गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथन प्रत्युपेक्ष्य विदितवेधः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः-शारीरमानसदुःखोसादन तस्मै नो कर्म कुर्याद, येन प्राणिनां पीडोपद्यते तमारम्भ न विदध्यादिति भावार्थः। एवं च सति किं भवतीत्याह-'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतसत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूपस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-'कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्द्ववातात्मकसंसारतरुवीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणव मूलमात्मात्मीयग्रहा, सदपनोदार्थमाह
जे ममाइयमइं जहाइ से चयइ ममाइयं, से हु दिलृपहे मुणा जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिजासि तिबेमि॥
नारइं सहई वीरे, वीरे न सहई रति।जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ॥१॥(सू०९८) ममायित-मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्सरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काका नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावानगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमि|त्याह-'से हु' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षापारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह-'जस्स' इत्यादि, यस्य 'ममायित' स्वीकृत परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च-'तं' इत्यादि, 'त' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञातज्ञेयो विदित्वा 'लोक' परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो?-मतिमान् सदसद्विवेकज्ञः 'पराक्रमेथाः' संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किश्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात् , तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?-विशेषेणेरयति-प्रेयरति अष्टप्रकारं कर्मारिषवर्ग वेति वीरः-शक्तिमान , स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विपयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गार्य विदधाति । यत एवं ततः किमित्याह__ सद्दे फासे अहियासमाणे निविंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे
कम्मसरीरगं ॥ २ ॥ पंतं लूहं सेवंति वीरा संमत्तदंसिणो। एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए तिबेमि ( सू० ९९)
ॐ2%
AR
भ्यन्तरं परिग्रह पथवा काका नीयत, नानिषेधादान्तरो भाव दि, यो हि मोकासम्बन्धेऽपि जिनकल्पिकस्तश्चदमुक्तं भवति-सत्यपि सम्बन्ध
सम्यग्विदध्या इतियावर संयमानुष्ठाने पराक्रममाणानुष्ठानं कुर्वतः साधोः कदा अष्टप्रकारं कर्मात्यतगृहगृहिणीधनहिरण्यादिपार क्षमते, कोऽसौ?-विशेषणरयान सहते' न मर्षति,
कोऽसौ?-विशेष कुर्वतः साधोः कहानिः किंभूतो भवतात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org