SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 94 ***** श्रीआचा- उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोक.वि.२ रावृत्तिः लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-अस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैव(शी०) मनगारस्य जायत' इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह उद्देशक से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा न कारवेज्जा (सू०९६) ___ यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुख्यमानःअवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् 'उत्थायेंत्यनेकार्थत्वादादाय-गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवगैंककारणमित्येवं सम्यगवबुध्यमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्व सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलं, अपरेणापि न कारयेदिति, आह च-न कारवें' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृपावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पार कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं न समनुजानीयायोग- ॥१४॥ त्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढोकते आहोस्विन्नेत्याह सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मूढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जंसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती (सू० ९७) 'स्यात्तत्र' कदाचित्तत्र पापारम्भे 'एकतरं' पृथिवीकायादिसमारम्भं विपरामृशति-पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वारं परामृशति-आरभते स षट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्त्तते इत्येवं मन्यते?, कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवा प्राणातिपातास्रवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिज्ञालोपाच्चानृतो, न च तेन व्यापाद्यमानेनासुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातोऽतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानाच पारिग्राहिकः, परिग्रहाच्च मैथुनरात्रीभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्यते चेत्यतोऽन्यतरारम्भे षण्णामप्यारम्भोऽथवा अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद् ?, अतः पदस्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपि पापसमारम्भं य आरभते स षट्स्वन्यतर स्मिन् कल्पते-योग्यो भवति, अकर्त्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्श्रीआचा- खन्यतरस्मिन् कल्पते-प्रभवति, पौनःपुग्येनोत्पद्यत इत्यर्थः, स्थात्-किमर्थमेवंविध पाप कर्म समारभते, तदुच्यते-- 18 लोक.वि.२ रावृत्तिः | 'सुहही लालप्पमाणे' सुखेनार्यः सुखार्थः स वियते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थ लपति पुनः पुनर्वा (सी०) 1लपति लालप्यते वाचा कायेन भाषनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि-सुखार्थी उद्देशका ६ सन् कृष्यादिकर्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्निं धर्मापनोदार्थ वायु आहारार्थी वनस्पति प्रस॥१४ ॥ कार्य वेत्यसंयतः संयतो वा रससुखार्थी सञ्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह-'सएण'इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्र्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च“दुःखद्विद् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः। यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥१॥" यदिवा 'मूढो हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति-हितमप्यहितबुझ्याधितिष्ठत्यहितं च हितबुद्ध्येति, एवं कार्याकार्यपश्वापथ्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति-मोहोज्ज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह-'सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन-मद्यादिना विविध मिति मद्यविष ॥१४॥ यकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्न प्रतं करोति, मदिवा पृथु विस्तीर्ण 'पयामिति वयन्ति-पर्यटन्ति TAGRANAMOKAARCRAHASKOCTSACROCCACARDASTI **** -RRRRRRRERA2%%%25A Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy