________________
आ. सू. २२
श्रीआचा
राङ्गवृत्तिः ( गी०)
॥ १२७ ॥
85
परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह
आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सलमाहहु, जेण सिया तेण नो सिया, इणमेव नावबुज्झंति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए, नालं पास अलं ते एएहिं (सू० ८४)
‘आशां’ भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः - परानुवृत्त्या भोगाभिप्रायस्तं च चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथक्कुरु त्यज 'धीर !' धीः - बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तत्प्राप्तिरिति, आह च- 'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते - त्वमेव तद्भोगाशादिकं शल्यमाहृत्य - स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न | भवतीत्याह - 'जेण सिआ तेण नो सिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्म्मपरि
Jain Education International
णतेर्न स्याद्, अथवा येन केनचिद्धेतुना कर्म्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्त्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्म्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न स्यादिति । एतच्चानुभवाविधारितमपि मोहाभिभूता नावगच्छन्तीत्याह --' इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ?ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः - छादितास्तत्त्वविपर्यस्तमतयो मोहनीयो> दयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति- 'धीभि' इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह - 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्ति-यथै-तानि ख्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भ वति - शारीरमानसासातवेदनीयोदयाय जायते, किं च- 'मोहाए' मोहनीय कर्म्मबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थ, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुद्धृत्य तिरश्चयेतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षितस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह - 'सययं' इत्यादि, सततम् - अनवरतं दुःखाभिभूतो मूढो 'धर्म' क्षान्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं 'न जानाति' न वेति । एतच्च तीर्थकृदाहेति दर्शयति- 'उदाहु' इत्यादि, उत्प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ? - वीरः - अपगत संसारभयस्तीर्थकृदित्यर्थः किमुक्तवान्?, तदेव पूर्वोक्तं वाचा दर्शयति- 'अप्रमादः कर्त्तव्यः, क्व ? - 'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च - 'अलम्' इत्यादि, 'अलं' पर्याप्तं, कस्य ? – 'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं ? - मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात् - किमालम्ब्य प्रमादेनालमिति १, उच्यते - 'सन्ति' इत्यादि, शमनं शान्तिः - अशेषकर्मापगमोडतो मोक्ष एव शान्तिरिति, त्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गति के संसारे स मरणः - संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्या लोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या - उपशमेन मरणं - मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्या - दिति । किं च- 'भेडर' इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म्म, स्वत एव | भिद्यत इति भिदुरं स एव धर्मः - स्वभावो यस्य तद्भिदुरधर्मं एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह - 'नाल' इत्यादि, 'नालं' न समर्धा अभिलाषो च्छित्तये यथेष्टावाप्तावपि भोगाः एतत् 'पश्य' जानीहि, अतोऽलं तव कुशल! 'एभिः प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभो गैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च – “यलोके व्रीहियवं, हिरण्यं पशवः स्त्रियः ।
For Private Personal Use Only
लोक.वि. २ उद्देशकः ४
॥ १२७ ॥
www.jainelibrary.org