SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीआचातओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते व णं एगया लोक.वि.२ राङ्गवृत्तिः (शी०) नियया पुदिव परिवयंति, सो वा ते नियगे पच्छा परिवइजा, नालं ते तव ताणाए उद्देशकः४ वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं ॥१२५॥ सायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं (सू० ८२) उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्श्यन्ते (इति) प्रागुक्तं, ते चामी-'तओ से एगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवटुं अणुपरियट्टइ' तात्ति, तानि चामूनि दुःखानि 'तओ से' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'बाले पुण निहे कामसमणुण्णे', ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते-'तत' इति कामानुषङ्गात् कम्र्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निषेककललार्बुदपशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःप्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे'त्यसातावेदनीयविपाकोदये 'रोगसमुत्पादा' इति रोगाणां-शिरोऽतिशूला-1 दीनां समुत्पादाः-प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह-'जेहिं । हा ॥१२५॥ इत्यादि, या 'सार्द्धमसौ संवसति, त एवैकदा निजाः पूर्व परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत् , नालं 'ते' तव त्राणाय या शरणाय वा, त्वमपि तेपां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयं, न भोगाः शोचनीया इति, आह चभोगा में' इत्यादि, भोगाः-शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुझ्महे?, एवंभूता वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदृक्षश्चाध्यवसायः केषाश्चिदेव भवतीत्याह-'इहमेगेसिं' इत्यादि, 'इह' संसारे एकेषामनवगतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवंभूतोऽध्यवसायो भवति, न सर्वेषां, सनत्कुमारादिना व्यभिचारात्, तथाहि-ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूछी बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिकेऽन्त्योच्छासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विरलो वाचि विह्वलो विपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकासिषुः पार्थोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चित् , न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरो गवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोचतानां न मनसः पीडोत्पद्यते ६ इति, उक्तं च-“उप्तो यः स्वत एव मोहसलिलों जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया। श्रीआचा- रोगैरकरितो विपत्कुसुमितः कर्मदुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥ १॥ लोक.वि.२ रावृत्तिः पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणा संचितानाम् । इति सह गणयित्वा यद्यदायाति (शी०) सम्यग् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः? ॥ २ ॥" अपि च-भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव उद्देशकः४ निर्दिदिक्षुराह॥१२६॥ तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्टइ, भोयणाए, तओ से एगया विपरिसि संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारडाहेण वा से डज्झइ इय, से परस्स अट्टाए कूराणि कम्माणि वाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ (सू०८३) त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि 'से' तस्यैकदा दायादा विभजन्ते, 4 ॥१२६॥ अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स ACCORMACOCOCCC Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy