________________
83
द्रव्यभावभेदात् , द्रव्योघो नदीपूरादिको भावौघोऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओघं ज्ञानदर्शनचारित्रबोहित्थस्थाःतरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश् , खित्त्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योधतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति, आह च–'नो य ओहं तरित्तए' 'न च' नैवोघं-भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा 'अतीरंगमा' इत्यादि, तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खशप्रत्ययादिकं, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापन्नान् कुतीर्थिकादीन् दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं ४ गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते. पारगमनायोद्यता अपि पारं गन्तुमलम् , अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः-पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम् , अथ तीरपारयोः को विशेष इति, उच्यते, तीरं मोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न
भवति तीरपारगामी चेत्याह-'आयाणिज' इत्यादि, आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादानीयं-श्रुतं तदादाय श्रीआचा- तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि बा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्याहरण्यादि लोक.वि. रावृत्तिः तदादाय-गृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं-कादाय, किंभूतो भवतीत्याह-'तस्मिन्' ज्ञा
उदेशका (शी०)
नादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति-नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति
विपर्ययानुष्ठायी च भवतीति दर्शयति-'वितह' इत्यादि, वितथम्-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः॥१२४॥
अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिंश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत् , अथवा वितथमिति आदानीयभोगाव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः । अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेश विर्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
उद्देसो पासगस्स नत्थि, वाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खा
णमेव आवदृ अणुपरियदृइ (सू० ८१) तिबेमि ॥ लोकविजये तृतीयोदेशकः ॥ उद्दिश्यते इत्युद्देशः-उपदेशः सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो-नारकादिव्यपदेशः ॥१२४॥ | उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भव-14 तीत्याह-बाले' इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगै निहन्यत इति निहः, निपूर्वाद्धन्तेः कर्मणि डः, अथवा स्निह्यत इति स्त्रिहः-स्नेहवान् रागीत्यर्थः, अत एवाह-'कामसमणुन्ने कामाः४ इच्छामदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्त्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः,
कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाजानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह-'असमियदुक्खे' अशमितम्-अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टकशस्त्रगण्डलूतादिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतं तद्विरूपमपि दुःखं विद्यते यस्यासौ दुःखी, एवंभूतश्च सन् किमवामोतीत्याह-'दुक्खाणं' इत्यादि, दुःखाना-शारीरमानसानामावर्त-पौनःपुन्यभवनमनुपरिवर्त्तते, दुःखावर्तावमग्नो बभ्रम्यत इत्यर्थः, । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ लोकविजयस्य तृतीयोदेशकटीका समाप्ता ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org