________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १२२ ॥
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १२३ ॥
82
शिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रका| शमवलीनमचेतनमध सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ १ ॥ तदेवं सर्वकषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं किमिति ?, यतः - 'सब्वे पाणा पियाज्या' प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो - जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैर्व्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः - आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च- 'सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः - सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम् असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूलाः- दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं दुःखकारणं तत् घ्नन्त्यप्रियवधाः, तथापि 'पियजीविणो' प्रियं दयितं जीवितम् - आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः - दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च-- "रेमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरीरमहणो रोगी जीए चिय कयत्थो ॥ १ ॥” तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थ दयि
१ रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमघनो रोगी जीवित एवं कृतार्थः ॥ १ ॥ तमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह- 'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं' दयितं यद्येवं ततः किमित्यत आह- 'तं परिगिज्झ' तद्-असंयमजीवितं 'परिगृह्य' आश्रित्य किं कुर्वन्तीत्याह'दुपयं' इत्यादि, 'द्विपदं' दासीकर्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचिया णं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण 'संसिच्य' अर्धनिचयं संवर्द्धा 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थ| मात्रा अर्थात्पता 'भवति' सत्तां विभर्त्ति किंभूता ?, सा सूत्रेणैव कथयति - अल्पा वा बह्वी या, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि वही 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम् उक्तं च-कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ १ ॥" इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह- 'भोयणाए' भोजनम् - उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतश्च किं भवतीत्याह - 'तओ से' इत्यादि, ततः 'से' तस्या| वलगनादिकाः क्रियाः कुर्वतः 'एकदा ' लाभान्तरायकर्म्मक्षयोपशमे 'विविधं' नानाप्रकारं 'परिशिष्टं' प्रभूतत्वाद्भुक्तोद्धरितं 'सम्भूतं' सम्यकपरिपालनाय भूतं संवृत्तं किं तत् ?, महच्च तत्सरिभोगाङ्गत्वादुपकरणं च महोपकरणं - द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह - 'तंपि से' इत्यादि, तदपि समुद्रोउत्तरणरोहणखननविलप्रवेश रसेन्द्रमर्दन राजावलगन कृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् ''से' तस्यार्थोपार्जनोपाय क्लेशकारिणः 'एकदा 'भाग्यक्षये 'दायादाः' पितृपिण्डोदकदानयोग्याः 'विभजन्ते ' विलुम्पन्ति, 'अदत्तहारो वा' दस्युर्वा अपहरति राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा' स्वत एवाट - वीतः 'से' तस्य 'विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति — 'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो नाशमुपैति नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै - अन्यस्मै अर्थाय - प्रयोजनाय अन्यप्रयोजनकृते 'क्रूराणि' गलकर्त्तनादीनि कर्माणि ' अनुष्ठानानि 'वाल:' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्म्मविपाकापादितेन 'दुःखेन' असातोदयेन ' (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगत सदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तं च - " रागद्वेषाभिभूतत्वाकार्याकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ १ ॥ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्च | मया न स्वमनीषिकयोच्यते सुधर्म्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तर्हांींदमित्यत आह'मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:- तीर्थकृत्तेन 'एतद्' असकृदुच्चैर्गोत्र भवनादिकं प्रकर्षेणादौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं कथितं वक्ष्यमाणं च प्रवेदितं, किं तदित्याह - 'अणोहं' इत्यादि, ओघो द्विधा
Jain Education International
For Private Personal Use Only
लोक.वि. २
उद्देशकः ३
॥ १२२ ॥
लोक.वि.३. उद्देशकः ३
॥ १२३ ॥
www.jainelibrary.org