________________
. सू. २१
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १२१ ॥
81
विवर्त्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः | हितेऽप्यहिताध्यवसायो विपर्यासमुपैति आह च- 'जीवितम् ' आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग्' इांते प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् 'इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां तथाहि - दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा 'क्षेत्र' शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति, किं च - 'आरतम्' ईषद्रक्तं वस्त्रादि 'विरक्तं' विगतरागं विविधरागं वा 'मणिः' इति रलवैडूर्येन्द्रनीलादि 'कुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य 'तत्रैव' क्षेत्रवास्वारक्तविरक्तवस्त्रमणिकुण्ड लख्यादौ 'रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति चनात्र 'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, * तथाहि - तपोनियमोपपेतस्यापि कायक्लेश भोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्र्युद्रा| हितस्योलापः, किं च दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसर सम्पादितविषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् 'लालप्यमानः ' भोगार्थमत्यर्थे लपन् वाग्दण्डं करोति, तद्यथा - अत्र तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रख्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्त्वेतत्त्वाभिनिवेशम् अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च - "दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ?, ये रिपवस्तेषु सुहृदाशा ॥ १ ॥" इत्यादि । ये पुनरुन्मज्जत्शुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह
Jain Education International
इणमेव नावखंति, जे जणा धुवचारिणो । जाईमरणं परिन्नाय, चरे संकमणे दढे (१) नत्थ कालस्स णागमो, सव्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गढिए चिgs, भोअणाए, तओ से एगया विविहं परिसिहं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, यो वा से विपति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से उज्झइ इय, से परस्सऽट्टाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुइ, मुणिणा हु एयं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नोय तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय मिठाणे न चिट्ठ, विहं पप्पखेयन्ने तंमि ठाणंमि चिट्ठइ ( सू०८० )
'इणमेत्र' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्क्षति' नाभिलपन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतंचारित्रं तच्चारिण इति । किं च - 'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत्, क ? – 'सङ्क्रमणे' सङ्क्रस्यतेऽनेनेति सङ्क्रमणं - चारित्रं तत्र 'दृढ' विश्रोतसिकारहितः परीषहोपसगेः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयम चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्कं मनो यस्यासावशङ्कमनाः- तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्त्तेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसार्हो भवति, न चौपशमिक सुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किश्चित् श्रूयते, उक्तं च- “ संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ १ ॥ " | इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं, न चैतद्भावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः - 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनत्रसर इतियावत्, तथाहि - सोपक्रमायुपोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्त्ती जन्तुर्जतुगोलक इव न विलीयेत इति उक्तं च - “ शिशुम
For Private
Personal Use Only
लोक.वि. २
उद्देशकः ३
॥ १२१ ॥
www.jainelibrary.org