________________
श्रीआचाराङ्गवृत्ति
(शी०)
॥ ११९ ॥
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ १२० ॥
80
अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति“पुरिसेणं खलु दुक्खुबे असुहेसए" 'पुरुषो' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्वासौ सुखैषकश्च दुःखोद्वेगसुखैपकः, सर्वोऽपि प्राणी दुःखोद्वेगमुखेषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मवादरविकलपञ्चेन्द्रियसंज्ञी तर पर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव तेषां च दुःखपरिजिहीर्षूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते - 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत् - शुभाशुभं कर्म वक्ष्यमाणं | चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति'रिति 'इण् गता' वित्यस्मात्स -- पूर्वात् किन्नन्ताद्भवति, सा च पश्चधा, तद्यथा - इर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रेर्यासमितिः प्राणव्यपरोपणत्रतपरिपालनाय, भाषासमितिर सदभिधान नियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तत्रतप्रकृष्ट| स्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते स चान्धो द्रव्यतो भावतश्च तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः उक्तं च – “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥ ॥ १ ॥” सम्यग्दृष्टयस्तुपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च- "जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ १ ॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ? ॥ २ ॥ एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकवि कलत्वादैहिकामुष्मिकेष्टफल क्रियानुष्ठानशून्यतां विभर्त्ति इति उक्तं च-- “धर्म्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो ? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? | ॥ १ ॥ स्वकलत्रबालपुत्रकमधुरवचः श्रवणवाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य १ ॥ २ ॥” एवं मूकत्वमध्ये कान्तेन दुःखावहं परिसंवेदयते, उक्तं च- " दुःखकरमकीर्त्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्म्मकृतं किं न पश्यन्ति १ ॥ १ ॥” तथा काणत्वमप्येवंरूपमिति, आह् च - "काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनः प्रियत्वमालेख्य कर्म्मलिखितोऽपि किमु स्वरूपः ? || १॥" एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं' विनिर्गत पृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णलक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्भावि वा कर्म्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च सह 'प्रमादेन' विषय क्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: 'संदधाति' संधत्ते । | चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, तासु च नानाप्रकारासु योनिषु 'विरूपरूपान्' नानाप्रकारान् 'स्पर्शान' दुःखानुभवान् परिसंवेदयते, अनुभवती| त्यर्थः ॥ तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धवधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्म्मविपाकं नावगच्छति संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यनवगनतत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति आह च
से अबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुर्ण बाले जीविकामे लालप्पमाणे मूढे विप्परियासमुवेइ (सू०७९)
'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्म्मविपाक मनवबुध्यमानो हतोपहतो भवति, नानाव्याधिस - द्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मात त्यक्तोचितविधेय विद्वज्जनवदनसमुद्भूतशव्दायशः पटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद्' 'अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे
Jain Education International
For Private Personal Use Only
लोक. वि. २ उद्देशकः ३
॥ ११९ ॥
लोक.वि. २ उद्देशः ३
॥ १२० ॥
www.jainelibrary.org