________________
%
A6
6%25EWROT%2594%
बनाति तस्यवोदयः सत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गो तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौवन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैगोत्रोदयस्तस्यैव सत्कर्मतेति, तदेवमुच्चावचेषु गोत्रेषु असकृदुखद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्तिना न मानो विधेयो नापि दीनतेति । तयोश्चोच्चावचयोः गोत्रयोन्धिाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'णो हीणे णो अइरित्ते' यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-“एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असई नीआगोए, कंडगड्याए नो हीणे नो अइरित्ते" एकको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, स चोचावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेभ्य एकभविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोच्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्त|व्यमित्याह-'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहेतापि' ना
भिलषेदपि अथवा नो स्पृहयेत्-नावकानेदिति । तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह-'इय दा संखाय' इत्यादि, इतिरुपप्रदर्शने 'इति' एतत्पूक्तिनीत्योचावचस्थानोसादादिकं 'परिसंख्याय' ज्ञात्वा 'को गोत्रवादी
श्रीआचा- राङ्गवृत्तिः (शी०)
भवेद् ?' यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत्!, तथाहि-मयाऽन्यैश्च जन्तुभिः लोक.वि.२ सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित्संसारस्वरूपपरिच्छेदी
उद्देशका त्यर्थः, किंच-कसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्या एकस्मिन्नुच्चैर्गोत्रादिकेsनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाय यदि तत्स्थान प्राप्तपूर्व नाभविष्यत् , तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकों विधेयाविति, आह च'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथश्चिदुचावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्ष विदध्याद्, उक्तं च-"सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा तेन न मे विस्मयस्तेषु ॥१॥ जइ सोऽवि णिज्जरमओ पडि-15 सिद्धो अहमाणमहणेहिं । अवसेस मयहाणा परिहरिअव्या पयत्तेणं ॥२॥" नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च-'नो कुप्पे' अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च-"अवमानासरिभ्रंशाधवन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥१॥ संते ये अविम्हइउं असोइड पंडिएण १ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमधनैः । अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन ॥ १॥ २ सत्सु च विस्मेतुमशोचितुं पण्डितेन |
॥११८॥ चासत्सु । शक्यं हि दुमोपमितहृदयेन हितं धरता ॥ १ ॥ भूत्वा चक्रवर्ती पृथ्वीपतिलिमलपाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालालयो भवति ॥ २ ॥ य असंते । सक्का हु दुमोवमिअहिअएण हि धरतेण ॥२॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो । सो चेवर नाम भुजो अणाहसालालओ होइ ॥३॥" एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-भूएहि' इत्यादि, भवन्ति भविष्यन्त्यभूवनिति च भूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि:| 'सात' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः? एतजानीहि, किं चाभिलषन्त्यविगानेन प्राणिन
इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां विभति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम् , अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह--
समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरन्तं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ (सू०७८) १ कर्मवशगो. प्र. २ बुध्यख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org