________________
86
आचा- राङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः४
॥१२८॥
॥१२८॥
नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमि- तुमसौ, पुरोऽपराहे निजच्छायाम् ॥ २॥" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
एयं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निव्विज्जइ आयाणाए, न मे देइ न कुप्पिजा थोवं लटुं न खिसए, पडिसेहिओ परिणमिज्जा,
एवं मोणं समणुवासिज्जासि (सू० ८५) तिबेमि ॥ 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थ 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च के गुणमवामोतीत्याह-'एस' इत्यादि, 'एप' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः' स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह-'जे' इ. त्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ?- आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावा-|| रककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह–'न में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽ-1 प्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम् , अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थ तपो भावीति न किश्चित्थूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह-थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लढुं' लब्धा न निन्देहातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं | ददस्वेत्येवं अत्युद्वृत्तच्छात्रवन्न विदध्यात् । किं च-'पडिसेहिओ' इत्यादि, 'प्रतिषिद्धः' अदित्सितस्तस्मादेव प्रदेशात् | 'परिणमेत् निवर्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद्-धिक्ते गृहवासमिति, उक्तं च-"दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ!। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं ॥१॥" |इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत् , नोच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवद्दातारं नोप्रासयेदिति । उपसंहरन्नाह–'एयं' इत्यादि, 'एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥
लोक.वि.२ उद्देशका
१ दृष्टाऽसि उदारमते । अनुभूताऽसि उदारमते! । पीतमेव ते पानीयं वरं तव नाम न दर्शम् ॥१॥ श्रीआचा-18| उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोक- राङ्गवृत्तिः निश्रया संयमदेहप्रतिपालनार्थ विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण (शी०) मुमुक्षुणोरिक्षप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठान विधायिना दीर्घसंयमयात्रार्थ देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं,
निराश्रयस्य हि कुतो देहसाधनानि ?, तदभावे धर्मश्चेति, उक्तं हि-"धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि । ॥१२९॥
राजा गृहपतिरपरः पटाया गणशरीरे च ॥१॥" साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलवाद्यर्थ आरम्भे प्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति
जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ कजइ,
इहमेगेसिं माणवाणं भोयणाए (सू० ८६) 'यैः' अविदितवेद्यैः 'इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः 'शस्त्रैः' प्राण्युपघातकारिभिव्यभावभेदभिन्नैः 'लोकाय' शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थ कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org