________________
74
लोक.वि.२ उद्देशकः१
श्रीआचा- शुभानि बन्नन्ति, तमतमानारकास्तु तिर्यग्गत्यानुपूद्वियनीचैर्गोत्रसहितानीति, तदध्यवसायोपपत्नः सन्नायुष्कमवघ्नन् राङ्गवृत्तिः यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, (शी.)
तत ऊर्द्ध क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति । नोकर्मभावक्षपारवालस्यमो
हावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्कनक्षम मनुष्यभवं ॥११ ॥
बोध्यादिकं नामोतीति, उक्तं च-"आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव | कुऊहला रमणा ॥१॥ एएहिं कारणेहिं लद्रूण सुदुलहपि माणुस्सं । न लहइ सुई हिअरिं संसारुत्तारणिं जीवो ॥२॥" तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो| धर्मचरणकालो भावक्षणः क्षयोपशमादिरूपः। इत्येवंभूतमवसरमवाध्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः। किं च
जाव सोयपरिणाणा अपरिहीणा नेत्तपरिगणाणा अपरिहीणा घाणपरिणाणा अपरिहीणा जीहपरिणाणा फरि०, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आ
यटुं संमं समणुवासिज्जासि (सू० ७१ ) त्तिवेमि ॥ प्रथमोद्देशः ॥
१ आलस्यं मोहोऽवर्णः स्तम्भः क्रोधः प्रमादः कृपणता। भयशोको अज्ञानं विक्षेपः कौतूहळ रमणम् ॥ १॥ एतैः कारणलवा मुदुर्लभमपि मानुष्यं । न लभते * श्रुति हितकरी संसारोत्तारिणी जीवः ॥२॥ ___ यावदस्य विशरारोः कायापशदस्य श्रोत्र विज्ञानानि जरसा रोगेण वा अपरिहीनानि भवान्त, एवं नेत्रघाणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्ध प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृटैानैरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह-'आयई' इत्यादि, आत्मनोऽर्थ आत्मार्थः, सच ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थ, तञ्च चारित्रानुष्ठानमेव, अथवा आयतःअपर्यवसानान्मोक्ष एव, स चासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताल्लिसिए सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासयेः' |आत्मनि विदध्याः। अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेना|त्मानं 'समनुवासयेद्'भावयेद्रञ्जयेत् , आयतार्थ वा मोक्षाख्यं सम्यग-अपुनरागमनेनान्विति-यथोक्तानुष्ठानात्पश्चादात्मना |'समनुवासयेद्'अधिष्ठापयेत् । 'इतिः' परिसमाप्ता, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमान-1 स्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः॥
श्रीआचा- उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलो- लोक.वि.२ राङ्गवृत्तिः कविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्किरदेशि, तत्र माता(शी०) पित्रादिलोकविजयेन रोगजराद्यनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् : इहापि तस्मि
नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद् , अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवे॥११॥
नादित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कर्मापहीयते तथा
अस्मिन्नयने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह। अरइं आउट्टे से मेहावी, खणंसि मुक्के (सू०७२) __ अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-'आयह समणुवासेज्जासि' आत्मार्थं संयम सम्यक्तया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-'अरई' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेणं भगवया एवमक्खायं'। किं तच्छुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयाँ मोहोदयात् कपाया|भिष्वङ्गजनितां मातापितृकलवाद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्तेत अपवभात निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गे ॥१११॥ ४|| रतिं निवर्त्तत, निवर्तनं चैवमुपजायते यदि दशविधचकवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं ||
CHECK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org