________________
बा. सू. १९
श्रीआचा राङ्गवृत्तिः
'शी० )
॥ १०९ ॥
73
इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह- 'तओ से' इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे 'से'तस्य बुभुक्षोः 'एकदे'ति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावित वेदनीय कम्र्मोदये 'रोगसमुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह- 'जेहिं' इत्यादि, 'यैः 'मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः 'एकदा ' रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति स वा तान्निजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत्, तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति- 'नाल'मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यकरणेन रोगवेदनाः सोढव्याः ? इत्याह
जाणित्तु दुक्खं पत्तेयं सायं ( सू० ६८ )
ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्म्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च- " सह कलेवर ! दुःखमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव है !, परवशो न च तत्र गुणोऽस्ति ते ॥ १ ॥ " यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्ण न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय |इत्येतद्दर्शयति
अणभितं च खलु वयं संपेहाए (सू० ६९ )
चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिकान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य " आय समणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत् कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति, परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति
खणं जाणाहि पंडिए ( सू० ७० )
क्षणः - अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाणामभावे सति, तं क्षणं 'जानीहि' अवगच्छ 'पण्डित' आत्मज्ञ ! । अथवाऽवसीदन् शिष्यः प्रोत्साह्यते - हे अनतिक्रा न्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि' अवबुध्यस्व, तथाहि द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्व पञ्चेन्द्रियत्वविशिष्टजाति कुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसा'नैतच्चारित्ररोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र मवाप्यते, तथाहि - देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषडिशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणःक्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां तिसृषु समासु सुषमदुष्पमादुष्पमसुषमादुष्षमाख्यासु उत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धाधोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा-कर्म्मभावक्षणो नोकर्म्मभावक्षणश्च तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम्मौहूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो | देशोनां पूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्वक्षणस्त्व जघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणां तु कर्म्मणां पल्योपमासङ्ख्येयभागन्यूनान्तः सागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति, स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्धयमानो मतिश्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रि कान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बभ्रंश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बनन्निति, ध्रुवकर्म्मप्रकृतयश्चेमाः पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायपोडशकं भयं जुगुप्सा तेजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरुलधूपघात निर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यक्त्वमुत्पादयन्नेता एकविंशतिः (म्) परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपचेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्र संस्थानपराघातोच्छ्वासप्रशस्त विहायोगतिप्रशस्तनसादिदशक सातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथम संहनन सहितानि
Jain Education International
For Private Personal Use Only
लोक.वि. २
उद्देशकः १
॥ १०९ ॥
www.jainelibrary.org