________________
श्रीआचा राङ्गदृतिः (शी०)
॥ १९५ ॥
75
भवति-संयमे रतिं कुब्बींत, तद्विहितरतस्तु न किञ्चिद्राधायै, नापीहापरसुखोचरबुद्धिरिति, आह च “क्षितितलशयनं वा प्रान्तभैक्षानं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १ ॥ तणसंधारनिसण्णोऽदि मुणिवरो भनुरागमयमोहो । जं पावइ मुत्तिसुहं तं वतो चकवट्टीवि ? ॥ २ ॥" इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्त चारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽष्टे
बिउसे अदढो उ संगमे कोइ हुज अरईए। अन्नाणकम्मलो भाइएहिं अज्झत्थदोसेहिं ॥ १९७ ॥ इह हि प्रथमोदेश यो निर्युक्तिगाथा आस्मिंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोदेशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अदृढः' शिथिलो मोहनीयोदयादरत्युद्भवा भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छा मदनकामानां परिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथायेः ॥ [द्वितीयाध्ययने द्वितीयोदेशक नियुक्तिः ] ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च--" तज्ज्ञानमेव न भवति यस्तिशुदिते विभाति रागगणः ।
१ तणसंस्तार निषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिमुखं कुतस्तत् चक्रवर्त्यपि ॥ १"
तमसः कुतोऽस्ति शक्तिर्दिन करकिरणामतः स्वातुम् ॥ १ ॥" इत्यादि, यो ज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्याद्, आह च-अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सकिं दधति विभवाभोगङ्गार्जने वा । विद्वश्चिखं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कपत्यंसभिसि गजेन्द्रः ॥ २ ॥ नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाञ्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्र मोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्- ज्ञानं भूरि यथावैवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युके न कर्तृ स्वयम् । दीपो यत्तमसि व्यनति किमु नो रूपं स एवेक्षता, सर्वः स्वं विषयं प्रसाध्यति हि प्रासङ्गिकोऽन्यो विधिः ॥ १ ॥ तथेदमपि भवतो व कर्णविवरमगाद् यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती'त्यतो यत्किचिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवामोतीत्याह - 'खणंसि मुक्के' परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तस्यप्रसाधितः तत्र मुको विभक्तिपरिणामाद्वा क्षणेन- अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुको भरतवदिति, ये पुनरनुपदेशवर्त्तिनः कण्डरीका द्यास्ते चतुर्ग| तिकसंसारान्तर्वर्त्तिनो दुःखसागरमभिवसन्तीत्याह च-
अणाणाय पुट्ठावि पगे नियहंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समु
ल कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्भ मोहे पुणो पुणो
सना नो हव्वाप नो पाराए (सू०७३ )
आज्ञाप्यत इत्याज्ञा - हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तथा अनाज्ञया सत्या 'स्पृष्टाः ' | परीपहोपसर्गैः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्त्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके' मोहनीयोदयाकण्डरीकादयो न सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्त्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्त्तन्त इत्याह- 'मन्दा' जडा अपयतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता ?, यतो 'मोहेन प्रावृता' मोह:- अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च- "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १ ॥" इत्यादि, तदेवमवाप्त चारित्रोऽपि कम्र्मोदयात्परीषहोदयेऽङ्गीकृत| लिङ्गः पश्चाद्भावता मालम्बत इत्युकम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं | संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति- 'अपरिग्गहा' इत्यादि, परि:- समन्तात् मनो| वाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यत्रतोपादानात् शेषाण्यपि ब्राह्माणि अहिंसका वयं भविष्याम एवममृपावादिन इत्याद्यप्यायोज्यम् । तदेवं शैलूपा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रत्रज्याविशेषान्विवति, उक्तं च- "स्वेच्छाविरचितशास्त्रः
Jain Education International
For Private Personal Use Only
लाक.वि.२ उद्देशका
॥ ११२ ॥
www.jainelibrary.org