________________
10
2016
यलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्तिं निवर्त्तयति, तदनन्तरमन्तर्मुहूतेन शरीरपर्याप्तिं, ततोऽपी
|न्द्रियपर्याप्तिं तावतैव कालेन, तानि च पञ्चेन्द्रियाणि-स्पर्शनरसनघाणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येक (को०)
द्विविधानीति, तत्र द्रव्येन्द्रिय निर्वृत्त्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निवर्त्यत इति नि-हाउद्दश वृत्तिः, केन निर्वय॑ते ?, कर्मणा, तत्रोत्सेधाङ्गलासङ्ख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रि यसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्ध किसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति वाह्या निवृत्तिः, तस्या एव निवृत्तेर्द्विरूपायाः येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थ, सत्यामपि निवृत्तावनुपहतायां मसूराकृतिरूपायां निवृत्तौ तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमणस्तावत् कृष्णशुक्लमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति, भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धि. शानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिं प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निवृत्त्युपदारणोपयोगाः, सत्यां च निवृत्तावुपकरणोपयोगी, मत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं ॥१०४॥ प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जयन्यतस्त्वङ्गलासख्येयभागविषयत्वं सर्वेषाम् , अत्र च 'सोयपरिणाणेहि परिहायमाणेही त्यादि य उत्पत्तिं प्रति व्यत्ययनन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्सर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकत'मित्यादि, अथवा श्रोत्रादिविज्ञानरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम् , इह हि चत्वारि वयांसि-कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च "प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे कि करिष्यति ? ॥ १॥" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि कौमारयौवनस्थविरत्वभेदाद्, उक्तं च-"पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्यमहति ॥ १॥” अन्यथा वा त्रीणि वयांसि, वालमध्यवृद्धत्वभेदात् , उक्तं च-आषोडशाद्भवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥१॥" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानैर्व्यस्तसमस्तदंशतः सर्वतो वा परिहीयमाणैर्वा मौख्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण-अत्यर्थ मोठ्यमापद्यत इति, आह च-ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयादयोऽतिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धाव
१ चक्षुपः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्थमुक्तं. श्रीआचा- स्थायां मूढभावो मूढत्वं-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमा- लोक.वि.२ राङ्गनिःणानि मूढभावं जनयन्तीति ॥ स एवं वार्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह(शी०)
उद्देशकः १ जेहिं वा सन्द्रिं संवसति ते विणं एगदा णियगा पुटिव परिवयंति, सोऽवि ते णियए पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए
वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए (सू०६४) वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलनादिभिः 'साई' सह संवसति, त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारे 'एकदेति वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषित... ते तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च-"वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥" गोपालवालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यां नगर्या अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाशेपदुःखितब- ॥१०५॥ न्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादृद्धभावमुपगतः सन् पुत्रेषु सम्यपालनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org