________________
an
श्रीआचाराङ्गवृत्तिः (शी०)
॥१०६॥
AAAAAAAAAAAAACAR
पचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप । तेऽपि वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति है| कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन् ,
ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरद्वृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां | निन्युः । असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुपाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तनभिहितवत्यः-त्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहुते, यदि भवतामप्यस्माकमुपर्यविस्रम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किश्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरे तद्भण्डनस्वभावतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजननावगीतो वाइमात्रेणापि केनचिदप्यननुवय॑मानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यकनिष्ठलोकात्परिभवमामोतीति, आह-“गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव
१ स्मृतोपकाराः २ असमर्थ. हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पली न शुश्रूषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यव. लोक.वि.२ ज्ञायते ॥ १॥” इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराज
उद्देशका जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिंद्यमानार्थतया तानसाबवगायति-परिभवतीत्यर्थः। येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तदुःखापनयनसमर्था न भवन्ति, आह च-नाल'मित्यादि, नालन समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एसदुक्तं भवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय 8 शरणाय वेति, उक्तं च-"जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥” इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-'से ण हस्साएं' इत्यादि, 'स' जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न च लङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगृहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते ॥१०६॥ | १ तद्व्यतिरिक्त० प्र० २ विद्यमाना० प्र. भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामा-si स्पदस्वान रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च-"न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥१॥ जं 'जं करेइ तं तं न सोहए जोवणे अतिकते । पुरिसस्स महिलियाइ व एक्कं धर्म पमुत्तूर्ण ॥ २॥" गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमा
यए वओ अच्चेति जोव्वणं व (सू०६५) ___ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्चेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूपायै प्रत्येकं च शुभाशुभकर्मफलं| माणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोकं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्त्युत्तरेण सण्टङ्कः, किंच-'अंतरं चे'त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं, चः समुच्चये, खलु
१ यद्यत्करोति तत्तन्न शोभते यौवनेऽतिकान्ते । पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य ॥ २॥
-441
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org