________________
हिताहितप्राप्तिपरिहारविवेकशन परिक्षीयमाणान्यात्मनःजानेष्वपि योज्यम्
भागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वर्षेरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुक इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि-“दंडकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलग | आउस्स उवकमा एते ॥२॥” उक्तं च-"स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यजीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति?॥ १ ॥ उच्छासावधयः प्राणाः, स चोच्छ्रासः समीरणः । समीरणाच्चलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥२॥” इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं
१ दण्डः कशा शस्त्रं रज्जुरनिरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतियं क्षुत्पिपासा च ब्याधिश्च ॥ १॥ मूत्रपुरीषनिरोधः जीर्णेऽजीणे च भोजने बहुशः । मा.सू. १८
घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥ २ ॥ श्रीआचा- परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं
लोक.वि.२ राङ्गवृत्तिः जणयंति ॥ ६३॥
Nउद्देशकः । (शी०)
शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभा॥१०३॥ वमिति, तेन श्रोत्रण परिः-समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्परिही
दयमानैः सद्भिस्ततोऽसौ-प्राणी 'एकदा' वृद्धावस्थायां रोगोदयावसरे वा 'मूढभावं' मूढतां कर्तव्याकर्त्तव्याज्ञतामिन्द्रिय
पाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे 'तिड तिडो भवन्तीति बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापाद-13 यन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम् , अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टुणि कुतो न भवन्ति ?, उच्यते, अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् , दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा-धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपि ॥१०३॥ करणानि सन्ति तानि किं नोपात्तानि?, कानि पुनस्तानि?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणोसर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वादिन्द्रियम् , एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन | || क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणां स्वविषये निय-13 तत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पर्शादेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम् , इह तु पुनः पाणिच्छेदेऽपि तत्कायेस्यादानलक्षणस्य दशनादिनाऽपि निर्वय॑मानत्वाद्यत्किश्चिदेतत् , मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत
एव, तस्य च वाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षकणार्थ, तथाहि-येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रवर्त्तते नेतरदिति, ननु च दीर्घशष्कुली-1
भक्षणादौ पञ्चानामपि विज्ञानानां योगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, यस्तु यौगपद्येनानुभवा|भासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च-"आत्मा सहेति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो ब्रजति तत्र गतोऽयमात्मा ॥१॥" । इह चायमात्मेन्द्रि
१ खपक्षे भावमनो व्याप्रियते इत्यर्थः.
-% 2
---6
TAM
-
AKAKKAR23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org