________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥ १०१ ॥
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १०२ ॥
68
उद्देशकः १
इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - 'काले 'त्यादि, कालः - कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्य- के लोक.वि. गुत्थातुम् - अभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु काले कर्त्तव्यावसरे अकालेन तद्विपर्यासेन समुतिष्ठते - अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरे न करोत्यन्यदा च विदधातीति यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादप गतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी | भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् -- “मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ १ ॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह - 'संजोगडी' संयुज्यते संयोजनं वा संयोगोऽर्थः - प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी - तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो | मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च- 'अठ्ठालोभी' अर्थो - रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि - असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षानिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरु - पभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च - " उकखणइ खणइ निहणइ रसिं ण सुअति दियावि य ससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ १ ॥ भुंजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं । नवि य वसीहामि घरे कायव्वमिणं बहुं अजं ॥ २ ॥” पुनरपि लोभिनोऽशुभव्यापारानाह – 'आलुपे' आ - समन्तालुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलो भैकदत्तदृष्टिरैहिकामु|ष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च - 'सहसकारे' करणं कारः, असमीक्षितपूर्वा| परदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच्, (पा० ५-२-१२७) अथवा छान्दसत्वात्कर्त्तर्येव घञ्, करोतीति कारः, तथाहि-लोभ तिमिराच्छादितदृष्टिरर्थैकमनाः शकुन्तवच्छ्राघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान् आह 'च- 'विणिविट्ठचित्ते' विविधम्- अनेकधा निविष्टं स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अअन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविट्ठचिट्ठे'त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह - ' इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः
१ उत्खनति खनति निदधाति (इन्ति ) रात्रौ न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं लाञ्छित प्रतिलाञ्छितं करोति ॥ १ ॥ भुङ्क्ष्व न तावन्निर्व्यापारो जिमितं नापि चाद्य महस्यामि । नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बहद्य ॥ २ ॥
सन् पृथिवीकायादिजन्तूना यच्छस्त्रम् - उपघातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवी कायादिजन्तूनामुपघाते वर्त्तते, तथाहि - 'शसु हिंसायामित्यस्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः तच्च स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो,' 'अत्र' मातापितृशब्दादिसंयोगे लोभार्थी सन् 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टवेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - 'अप्पं च' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्म्मपुद्गलाः 'इहे'ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु -इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं - स्तोकमायुर्भवति, चशब्दादुत्तरोत्तर समयादिवृद्ध्या पल्योपमत्र्यावसानेऽप्यायुषि खलुशब्द| स्यावधारणार्थत्वात्संयम जीवितमल्पमेवेति, तथाहि - अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कं तच्चाल्पमेवेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्त्तमपहाय सर्वमपवर्त्तते, उक्तं च- " अद्धा जोगुक्को से वंधत्ता भोगभूमिएसु लहुं । सब्वप्पजीवियं वज्जइत्तु उव्वट्टिया दोन्हं ॥ १ ॥" अस्या अयमर्थः - उत्कृष्टे योगे - बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क ? -- 'भोगभूमिकेषु' देवकुर्व्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा 'द्वयोः ' तिर्यग्मनुष्ययोरपवृत्तिका - अपवर्त्तनं भवति, एतच्चापर्याष्टकान्तर्मुहूर्तान्तर्द्रष्टव्यं तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रमं यदा ह्यसुमान् स्वायुषस्त्रि
Jain Education International
For Private Personal Use Only
॥ १०१ ॥
लोक.वि. २ * उद्देशकः १
* ॥ १०२ ॥
www.jainelibrary.org