________________
46
4-
9- 02-
त्वाच सूत्रस्येत्येवमपि द्रष्टव्यं-यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्तते स एव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे गुणे वर्तते स एव संसारमूलकषायादिस्थानादी| वर्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं--यो गुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति, यो गुणः | शब्दादिकोऽसावेव संसारस्य कषाचकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्य, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम् , इह च सर्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि-मूलमत्र कामयादिकमुपन्यस्तं, कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्दा, अनन्तानुबन्धिनोऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषां च प्रत्येक स्थान
गुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, सा च छमस्थेन सर्वायुषाऽप्यविषयत्वा(दनन्तत्वा)चाशक्या दर्शयितुं, दिग्दर्शन zतु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना व कार्येति । तदेवं
य एव गुणः स एव मूलस्थानं धदेव मूलस्थानं स एव गुण इत्युक्त, ततः किमित्यत आह-'इति से गुणही महया' इत्यादि, इतिहेतौ यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्रासौ प्राप्तिनाशे वा काङ्काशोकाभ्यां स प्राणी महता' अपरिमितेन परि-समन्तात्तापः
परितापस्तेन-शारीरमानसरवभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत् तिष्ठेदुपयेत, क्रिम्भूतः श्रीआचा- सन् ?-प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रा- लोक.वि.२ राङ्गवृत्तिः दिविपयो भवतीति दर्शयति—'माया में' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे
उद्देशका (शी.) च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते,
तदुपघातकारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपानन्दकुलं क्षयं । निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्त|द्विपत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा-जरासन्धो जामातरि कसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् , स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्त्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा-मित्रं स्वजनः-पितृव्यादिः संग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुर वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजन-मोदकादि आच्छादनं-पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा । 'इच्चत्थ'मिति इत्येवमर्थ गृद्धो लोकः तेष्वेव मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत् तिष्ठेदिति, उक्तं च-“पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ १॥1॥ पुत्रकलत्रपरिमममत्वदोषैनरो ब्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमानोति ॥२॥" अमुमेवार्थ नियुतिकारो गाधाद्वयेनाह
संसारं छेत्तुमणो कम्मं उम्मूलए तदहाए । उम्मूलिज्ज कसाया तम्हा उ चइज्ज सयणाई ॥ १८५॥
माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे।अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति॥१८६॥ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत् , तदुन्मूलनार्थ च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जयात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-रत्नकुप्यादिके गृद्धा:-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथादयार्थः । तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि,
अहश्च सम्पूर्ण रात्रिं च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, | तद्यथा-"कइया वञ्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी । को कयविक्कयकालो निम्विसइ किं कहिं केण? ॥१॥",
CineC
-AAAAAAAAC++
१ कदा नजति सार्थः किं भाण्डं कुत्र कियती भूमिः । कः क्रयविक्रयकालो निर्विषयति (निर्विशति) किक केन ? ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org