________________
.
की
लोक.वि, उद्देशकः१
+++14...+
॥९८॥
2225
-
श्रीआचा- सुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम्-“दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःख- राङ्गवृत्तिः बुद्धिः। उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥१॥" एतदुक्तं भवति-कर्मनिमित्तभूता (शी०) मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति । तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थ
स्यापि निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मेत्युच्यते । कृतिकर्म तस्यैव कर्मणोऽपनयनकारकमहसिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति । भावकर्म पुनरवाधामुलकय स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम् , इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाधिकार इति गाथागकलेन दर्शयति
अट्ठविहेण उ कम्मेण एत्थ होई अहीगारो॥१८४ ॥ गाथाई कण्ठ्यमिति गाथाद्वयपरमार्थः॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षिप्ते |-|नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं वित्रियते
जे गुणे से मूलढाणे, जे मूलढाणे से गुणे । इति से गुणट्री महया परियावेणं पुणो पुणो रते पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे ण्डसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे । इञ्चत्थं गहिए लोए अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्टालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खल्लू आउयं इहमेगेसिं माण
वाणं तंजहा- ६२॥ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः--'से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु से जं पुण जाणिजा सहसंमुइयाए परवागरणेणं अण्णेसिं वा सोच्चा' स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात्, किं तदित्युच्यते-'जे गुणे से मूलठ्ठाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवया एवमक्खाय' किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति ?, उच्यते, 'जे गुणे से मूलट्ठाणे,' 'य' इति सर्वनाम | प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेप्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्ट निर्देशार्थाभिधायीति, 'मूल'मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, 'व्यवच्छेदफलत्वाद् वाक्याना'मिति न्यायात् य एव शब्दादिकः कामगुणः स एव संसारस्य-नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्
आश्रयो वर्त्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चाश्रीआचा- टप्रकारं कर्म, तस्य स्थानम्-आश्रयः कामगुण इति, अथवा मूल-मोहनीयं तद्भेदो वा कामस्तस्य स्थानं शब्दादिको राङ्गवृत्तिः विषयगुणः, अथवा मूलं-शब्दादिको विषयगुणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, (शी) आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः
कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते । ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथं प्रक्षेप इति ?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्त्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति । अथवा मूलमित्याचं प्रधानं वा, स्थानमिति कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्य आद्यं प्रधानं वा कारणमिति, शेष पूर्ववदिति । साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावं दर्शयंस्तदुपात्तानां विषयकषायादीनां बीजाङ्करन्यायेन परस्परतः कार्यकारणभाव सूत्रेणैव दर्शयति-'जे मूलठाणे से गुणे'त्ति, यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्-आश्रयः शब्दादिको गुणोऽप्यसावेव, अथवा कषायमूलानां शब्दादीनां यत् स्थानं कर्म संसारो वा तत्तत्स्वभावापत्तेः गुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थान-मोहनीयं | कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्गुणावाः गुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत् स्थानविषयाभिष्वङ्गोऽसावपि शब्दादिविषयत्वाद् गुणरूप एवेति । अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थ
2
*
लोक.वि.२ उद्देशका
*
**
ॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org