________________
58
श्रीआचा- राङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः१
॥८६॥
पेतो, भावगुणो जीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते-तत्र देवकुरूत्तरकुरुहरिवर्षरम्यकहैमवतहरण्यवतषट्पञ्चा- शदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषो मनोज्ञशन ब्दादिविषयोपभोगिनः स्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः, फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थ प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन् | फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानावाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति-सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, |फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोनयवादान्तरेणाभेदाभ्युपगमात् , स च निर्भजनारूपो, निश्चिता भजना निर्भजना-निश्चितो भाग इत्यर्थः, तथाहि-स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणो नाम | कलाकौशलं, तथाहि-उदकादौ करणपाटवार्थ गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रक्षेपाव्या(पो व्या)कुलितचेतसोऽपि चतुदद्गात्रकण्डूयनमिति । गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च-"शाठ्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियाभापिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः॥१॥"। अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा गौगलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च-“गुणानामेव दौर्जन्याधुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौगलिः ॥१॥"। भवगुणो नाम भवन्ति-उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथानारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यश्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, स च जीवाजीवविषयः, तत्र जीवविषय औदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्र| शस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्की, तद्यथा-क्षीणसप्त
१ऽर्जवे प्र. २ दौरात्म्यात् प्र. कस्य पुनर्मिथ्यात्वागमनं १ क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्मक्षयः २ क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनावि- र्भावः ३ अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति ४ श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्ययाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्त्वौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः दर्शनसप्तकक्षयात् क्षायिका चारित्रमोहनीयोपशमादौपशमिकः भव्यत्वासारिणामिक इति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, | यदुत-काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः ?, उच्यन्ते, औदारिकादीनि शरीराणि पश्च पट् | संस्थानानि त्रीण्यङ्गोपाङ्गानि षट् संहननानि वर्णपञ्चकं गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपि जीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा-अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां गतिस्थित्यवगाहलक्षणः सादिपारिणामिकस्त्वधेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः ॥ उक्तो गुणो, मूलनिक्षेपार्थमाह
__ मूले छक्कं दवे ओदइउवएस आइमूलं च । खित्ते काले मूलं भावे मूलं भवे तिविहं ॥ १७३ ॥
श्रीआचा- राङ्गवृत्तिः (शी०) ॥८७॥
लोक.वि.२ उद्देशकः१
443
॥८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org