________________
+
-+-
दश्वगुणो दव्वं चिय गुणाण जं तंमि संभवो होइ । सञ्चित्ते अश्चित्ते मीसंमि य होइ दव्वमि ॥ १७ ॥ तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति !, गुणानां यतो गुणिनि तादात्म्येन सम्भवात् (वः), ननु च द्रव्यगुणयोर्लक्षणविधानभेदाझेदः, तथाहि-द्रव्यलक्षणं-गुणपर्यायवद् द्रव्यं, विधानमपि-धर्माधर्माकाशजीवपुद्गलादिकमिति, गुणलक्षण-द्रव्याश्रयिणः सहवर्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोपो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा-अरूपि रूपि च, तत्रारूपिद्रव्यं त्रिधा-धर्माधर्माकाशभेदभिन्नं, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं त्रयस्यापि स्वं रूपं न भेदेन व्यवस्थितम् , अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, | भेदेनानुपलब्धेः, संयोगविभागाभावात् , स्वात्मवत् । तथा सचित्तमयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हिर स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः। तदेवं द्रव्यगुणोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत्किमिदा
नीमभेदोऽस्तु ?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं
॥ स्यात्, तथाहि-चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूताबयविद्रव्याव्यतिरिक्तरसादेरप्युएलब्धिः स्याद्, रूश्रीआचा-पादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन् , अन्यथा विरुद्धधर्माध्यासा- लोक.वि.२ रावृत्तिः द्भिद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं - (शी.) गृहीमः?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगु
उद्देशकः१ णिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदब्यवस्थानेनैवात्मभावसद्भावात् , आह हि-"दव्वं पज्जवविजुयं दयविउत्ता य पज्जवा णत्थि । उप्पायद्विइभंगा हंदि दवियलक्खणं एयं ॥ १ ॥ नयास्तव स्यात्सदलामिछता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥२॥" इत्यादि स्वयूथ्यरत्र बडु विजृम्भितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यव-| स्थितमाह
संकुचियवियसियत्त एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगं बहुप्पएसत्तणगुणणं ॥१७१॥ जीवो हि सयोगिवीर्यसद्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तस
॥८५॥ मुद्घातवशात् सङ्कुचति विकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम् -इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुरातः, स च कपायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्ता
द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति । उत्पादस्थितिभा हन्दि द्रव्यलक्षणमेतत् ॥ १॥ बन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तेजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तीतान्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे-'पूरयति' व्यामोति हन्दीत्युपप्रदर्शने, किम् ?-'लोकं' चतुर्दशरज्वात्मकमाकाशखण्डं, कुतो?, बहुप्रदेशगुणत्वात् , तथाहि-उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्य दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम्-"दंडे कवाडे मंथंतरे यत्ति गाथार्थः ॥ गतो द्रव्यगुणः, क्षेत्रादिकमाहदेवकुरु सुसमसुसमा सिद्धी निम्भय दुगादिया चेव । कल भोअणुज चंके जीवमजीवे य भावंमि ॥१७२॥
क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम् , अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीवः क्षान्त्याधु
१ दण्डः कपाटो मन्था अन्तराणि च.
-
+
+
+
+
+
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org