________________
56
श्रीआचा-18 कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश'इति न्यायालोकविजययोनिक्षेपमाह
लोक.वि.२ ३ बुतिः | लोगस्स य निक्खेयो अट्ठविहो छब्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥१६६ ॥ALL
उद्देशकः१ तत्र लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९) मिति घञ्, सच धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिसायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छव्यिहो उ विजयरस'ति विजयः। अभिभ्यः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्डिधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह--'भावे कमायटोगोत्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकायलोकेनाधिकारः। तन्मूलत्वात संसारस्य, यद्येवं ततः किमत आह-'अहिगारो तस्स विजएणं'ति अधिकारो-व्यापारः, तस्य-आदयिकभावपायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेपार्थ प्रागुपादेशि विजयश्च पोढा, तन्निक्षेपार्थमाहलोगो भणिओ दवं खित्तं कालो अ भावविजओ अ। भव लोग भावविजओ पगयं जह बज्झई लोगो १६७४ । तन्न लोकश्चतुर्विशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्रा-1 नम् ?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचा-19 गर्थो भाष, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया दभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचारा व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोपो, तो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, स च पूर्वमावश्यकनियुक्तिं विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा
चोक्तम्-"आवस्सयस्स दसकालियरस तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वाददिनात्य द्रव्यादिकमाह-'दय'मित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकपा
यादिना श्लेष्मादपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन | विजयो यथा षष्टिभिर्वर्षसहस्रर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन्
वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः । तदेवं लो* कविजययोः स्वरूपभुपदर्य प्रकृतोपयोग्याह-भवे'त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्ग
भीत्या हस्व एवोपादायि, तथा चावाचि "भावे कसायलोगो अहिगारो तस्स विजएणं ति, तस्य औदयिकभावकपायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोकपड्डिधविजययोः प्रा
१ आवश्यकस्य दशकालिकस्य तथोत्तराध्ययनेष्वाचारे भी व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोका-प्राणिगणो बध्यते, लोक.वि.२ शनिबन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥ तेनैव भावलोकविजयेन किं फलमित्याह
विजिओ कसायलोगो सेयं खु तओ नियसि होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥१८॥
__ व्याख्या-'विजितः' पराजितः, कोऽसौ ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः । ॥८४
सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम् , अतस्तस्मान्निवर्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-'कामे'त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्वलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे' इत्यादि। ___ अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पश्चदशधा निक्षेपःब्वे वित्त काले फल पज्जव गणण करण अन्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१६९॥
नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपKi नियुक्त्यनुगमेन तदवयवे निलिप्ते सत्युपोद्घातनिर्युक्तरवसरः, सा च 'उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या ४॥
साम्प्रतं सूत्रस्पर्शिकनियुकेरवसरः, तत्रापि सुगमनामस्थापनाभ्युदासेन द्रव्याट्रिकमाह
42
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org