________________
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ ८२ ॥
55
नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपश्चाय, निष्प्रपञ्चाय तायिने ॥ १ ॥
शस्त्रपरिज्ञाविवरणमति गहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिश्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥ २ ॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इह हि मिथ्यात्वोपशमक्षय क्षयोपशमान्यतरावाससम्यग्दर्शन ज्ञान कार्य स्यात्यन्तिकै कान्तानावाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषनत वृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्म्मज्ञानोपलब्धेर्वार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च वौद्धादिमतनिरासेनै केन्द्रियावनिवनानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं | समानजातीयाश्मलताद्युद्धे ददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेर भकशरीरवत् अपर प्रेरिताप्रतिहतानियततिरश्चीनगमनाद्ङ्गवाश्वादिवत् सालककनूपुरालङ्का|रकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगेः तथोच्चैः शिर उद्घाट्य सूक्ष्मवादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तक अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि — अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितै केन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपश्च महाव्रतभारस्य साधोर्यथा रागादिकषाय लोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते ।
तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - " लोओ जह बज्झइ जह य तं विजहिय वं" ति, | इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि | उपाया व्याख्याङ्गानीत्यर्थः तानि चोपक्रमादीनि तत्रोपक्रमो द्वेधा - शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपत्रिधा - ओघनामसूत्रालापक निष्पन्नभेदात्, अनुगमो द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह -
?
सयणे य अढतं बीयगंमि माणो अ अत्थसारो अ । भोगेसु लोगनिस्साइ लोगे अममिजया चेव ।। १३३ ।। तत्र प्रथमोदेशकार्याधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्-- 'माया मे पिया में' इत्यादि १, 'अदढसं वीयगंमि'त्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषय कषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च - ' अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'माणो अ अत्थसारो अत्ति जात्याद्युपेतेन साधुना कर्म्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - ' के गोआवादी के माणावादी'त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- 'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा वेत्यादि ३, चतुर्थे तु 'भोगेपु'ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च — थी- ४ ॥ ८२ ॥ हिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगणिस्साए 'त्ति त्यक्तस्वजनधनमान भोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्त लोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम् - 'समुट्ठिए अणगारे' इत्यादि जाव परिव्वए' ५, षष्ठोदेशके तु' लोए अममिज्जया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापर संस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातियं' गाथातासर्यार्थः ॥ नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोर्निक्षेपः कार्यः, सूत्रालापक निष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कपायाभिधायकत्वात् कपायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापक निष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेमव्यं तन्निर्युक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे
लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायवो जंमूलागं च संसारो ॥ १६४ ॥
कळ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्रामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्र्याद्यनेकव्यसनो पनिपातपत्रगहनस्य प्रिय विप्रयोगाप्रियसम्प्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्र तरदुःखोपनिपातफलस्य संसारतरोर्मूलम् - आद्यं कारणं कषायाः - कषः - संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रा| लापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टेलोगोति य विजअत्ति य अज्झयणे लक्खणं तु निष्कण्णं । गुणमूलं ठाणंति य सुत्तालावे य निष्फण्णं ॥ १६५ ॥
Jain Education International
| लोक.वि. २
| उद्देशक ११
For Private Personal Use Only
www.jainelibrary.org