________________
श्री आधारावृत्तिः
(शी०)
॥ ८० ॥
54
व्वयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ चरणंश्च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षेपात् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत् न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात् चक्षुर्ज्ञानसमन्वितपङ्गपुरुष अर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानं, नगरदाहनिर्गमे पदबन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकाय स्वरूप रक्षणोपाय गर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतावतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महात्रतारोपणमुपस्थापनं परीक्ष्य निशाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वे यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्त्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरम्य त्रिरुच्चारयेद् यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता, पञ्चादिदं त्रिरुच्चरितव्यम् - 'ईचेइयाई पंच महत्वयाई राइभोयणवेरमणछठ्ठाई अत्तहियडयाए उपसंपज्जित्ता णं विहरामि पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्ग
१ इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणपष्ठानि आत्महितार्थायोपसंपद्य विरहामि .
यष्टिः-- ' संदिशत किं भणामी 'ति ?, सूरिः प्रत्याह - ' वन्दित्वाऽभिधत्स्वे' त्येवमुक्तोऽभिवन्द्येोत्थितो भणति - 'युष्मा - भिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि' मिति, आचार्योऽपि प्रणिगदति - 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्त्तयन् पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति - गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्त्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरितारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ आचार्यश्रीशीलाङ्कविरचिता शस्त्रपरिज्ञाध्ययनटीका समाप्तेति ( ग्रन्थानं श्लोकाः २२२१ ) ॥
XOXOTO
XOXODIDADY
Jain Education International
KAAR
इत्याचाराङ्गे शस्त्रपरिज्ञाध्ययनम् ॥ १ ॥
OXOXOXONORONG
For Private Personal Use Only
शस्त्र. परि१ उद्देशकः ७
11 20 11
www.jainelibrary.org