SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 53 शस्त्र.परि१. उद्देशकः७ येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवामोति षड्जीवनिकायघातकारीति ॥ अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह से वसुमं सबसमण्णागयपपणाणेणं अप्पाणेणं अकरणि पावं कम्मंणो अण्णेसिं, तं परिणाय मेहावी णेव सपं छज्जीवनिकायसत्थं समारंभेजा णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा णेवाणे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छजीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिणायकम्मे (सू०६१ । त्तिवेमि ॥ इति सप्तमोद्देशकः । इति प्रथममध्ययनम् ॥ 'स' इति पृधिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाविधाद्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्र्व्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानः पटुभिर्यथावस्थितविषय ग्राहिभिरविपरीतैरनुगत इतियावत् , तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं आ.सू. १४| इतः प्राक 'पनः पुनस्तत्रचोत्पत्तिः' इति प्र. न च यक्तः, २ पुनः पुनस्तत्रैव सर: कोत्पत्तिरूपः. श्रीआचा- यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरि- राङ्गवृत्तिःच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नर(सी०) कतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्त संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्व समन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना 'अकरणीयम्' अकर्त्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा ॥७९॥ नान्वेषयेत्-न तदुपादानाय यत्नं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति !, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्धेपकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह-'तं परिण्णाय मेहादी'त्यादि 'तत्' पापमष्टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी-मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात् , एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भाः तद्विपयाः पापकर्मविशेषाः परिज्ञाता परिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात् , तदन्यैवंविधपुरुषयदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उकः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः। सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधान मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुलसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधान, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यधाख्यातचारित्रवाहिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदादव्यावाधसुखलक्षणमोक्षाचाप्तिरिति, तस्माचरणं प्रधानमित्यध्यवस्यामः। अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्-"हेयं नागं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दहो, धावमाणो य अंधओ॥१॥" तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्-"ऐवं सव्वेवि णया मिच्छादिही सपक्खपडिबद्धा । अण्णोण्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥१॥" तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह-सब्वेसिपि णयाणं बहुविधवत्त हतं झानं क्रियाहीनं हताऽज्ञानतः किया । पश्यन् पार्दग्धो धावान्धः॥1॥ २ एवं सर्वेऽपि नयाः मिभ्यादृष्टयः खपक्षप्रतिबद्धाः । अन्योऽन्यनिबाधिताः पुनर्भवन्ति त एवं सम्यक्त्वम् ॥ १॥ ॥७९॥ *ARSAKS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy