________________
59
लोक.वि.६ उद्देशका
मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यद्वक्षादिमूलोत्पत्तावाद्यं कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्त्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुपद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः ।। तथाहि
ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिट्ठा विणयकसायादिओ आई ॥१७४॥ भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्ट्रमूलम् आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा-यैः कर्मभिः प्राणिनो मूलत्वेनोपद्यन्ते, तेषामपि मोक्षसंसारयोद यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति-'विणयकसाआइओ आई' तत्र मोक्षस्यादिमूल ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह-"विणया णाणं णाणाउ |दसणं दंसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् ।
१ विनयात् ज्ञानं ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरण तु । ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् ॥१॥ श्रीआचा- तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ३॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्या- रानवृत्तिः
Pाणानां सर्वेषां भाजनं विनयः ॥ ४ ॥” इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति ॥ मूलमुक्तमिदानी स्थानस्य (शी०)
पञ्चदशधा निक्षेपमाह___णामंठवणादविए खित्तद्धा उड्ड उवरई वसही। संजम पग्गह जोहे अयल गणण संधणा भावे ॥१७५॥
तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्-आश्रयः, क्षेत्रस्थानं भरतादि ऊर्ध्वाधस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख-येया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(णां)| सङ्खयेया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादी. नामेकोनपश्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेपामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षसहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । ऊस्थानं तु कायोत्सर्गादिकम् , अस्योपलक्षणत्वान्निषण्णाद्यपि गृह्यते । उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयं । वसतिस्थानं यो यत्र ग्रामगृहादौ वसति । संयुमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षान्निर्देष्टु शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्खयेयगुणाः, ततोऽपि तत्कायस्थितिरस येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्घयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्खयेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तमुहूर्तिकत्वादन्तर्मुहूत्तममयतुल्यान्यसङ्खयेयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्ट संयमस्थानम् , अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम् , असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्खयेयैर्जनितं षट्स्थानकं, तदसङ्ख-येयात्मिका श्रेणीति । प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थान प्रग्रहस्थानं, लौकिकं तावत्पश्वविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं जघन्यत एक समयमुत्कृष्टतश्चासङ्खयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम् , अनादिसपर्यवसानमतीताद्धारू
॥८८॥
KAAKAAKACAAAAAAAA%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org